________________
११८
श्रीज्ञानमञ्जरी व्याघातत्वे एवमाद्यवस्तु प्रतिपत्तव्यम्। यथा शिशिरो ज्वलनः, तथा विरुद्धविशेषत्वात् तटः तटी तटमित्यवस्तु, रक्तनीलमिति यथा, यद्वस्तु तदविरुद्धविशेषमभ्युपयन्ति सन्तः, यथा घटः कुम्भः । तथा चोच्यते यत्रार्थो वाचं न व्यभिचरति अभिधानं तद्, एवमयं समानलिङ्गसङ्ख्यापुरुषवचनं शब्दः । एतद्दर्शनानुगृहीतं चोच्यते अर्थप्रवृत्तितत्त्वानां शब्द एव निबन्धनमिति । ___ [72] तत्त्वार्थे शब्दनयस्त्रिभेदः, साम्प्रतसमभिरूद्वैवंभूतभेदात् । साम्प्रतं-वर्तमानं भावाख्यमेव वस्त्वाश्रयत इति वर्तमानक्षणवर्तिवस्तुविषयोऽध्यवसायः तद्भवः शब्दः साम्प्रतिः (साम्प्रतः) स्वार्थे को वा साम्प्रतिकः । अनुयोगद्वारादिषु भिन्नाख्यानेन भिन्नैव व्याख्यायते । ____ यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढः । सोऽभिदधाति-यदि लिङ्गमात्रभिन्नमवस्तु, विसंवादित्वात्, रक्तनीलतादिवत्, एवं सति मूलत एव भिन्नशब्दं कथं वस्तु स्यात् ? शब्देन हि अर्थाद् निरुक्तिः क्रियते, एतस्मान्निरुक्तादेषः इति यत्र तद्भेदस्तद्भिन्नमेव, यथा तु पूर्वनयेनैकं कृत्वोच्यते इन्द्रशक्रादि । तथा यदवस्तु घटज्वलनादि भिन्ननिमित्तत्वाद् अनयोरेकत्वेन अवस्तुता । एवं घटकुटयोरपि चेष्टाकौटिल्यनिमित्तभेदात्पृथक्ता । तथा प्रकृतिप्रत्ययोपात्तनिमित्तभेदाद् भिन्नौ शक्रेन्द्रशब्दौ एकार्थों न भवतः, विविक्तनिमित्तावबद्धत्वात्, गवाश्वशब्दवत् । (अथापि प्रतीतत्वाद्) (प्रतीतिश्च) लोके चैवं निरूढत्वात्, इन्द्रशब्दस्य पुरन्दरादयः पर्यायाः । इत्येतदनुपपन्नम्, एवं हि सामान्यविशेषयोरपि पर्यायशब्दत्वं स्यादेव । यतः प्लक्ष इत्युक्ते प्राग वृक्षेऽस्ति संप्रत्ययः, अस्तित्वेऽसम्प्रमोहे च संज्ञान्तरकल्पनायामिहापि तर्युक्तादनुक्तप्रतिपत्तौ सत्यां पर्यायत्वप्रसङ्गः । प्रविश, पिण्डी भक्षयेत्यस्य गमात् । तथास्तिर्भवतिपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते, वृक्षः प्लक्षोऽस्ति इति गम्यते न्यायादस्तिपर्यायः प्राप्तः, (भेदः साधीयान्) तस्माद्भेदस्यार्थनयात् दन्तिहस्तिनोश्चैकत्वप्रसङ्गः इति, एवं संज्ञान्तराभिधानमवस्तु इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org