________________
माध्यस्थाष्टकम् (१६)
११७ व्यपदेशः । यदि चान्यदपि कुर्वन्नन्यस्य (तस्य ?) कर्तेत्युच्यते, पटादिकरणप्रवृत्तोऽपि प्रत्याख्यातविज्ञानान्तरसम्बन्धः स्यादेव कुम्भकारस्ततश्चाशेषलोकव्यवहारोपरोध इत्यतः पूर्वापरभागवियुतः सर्ववस्तुगतो वर्त्तमानक्षण एव सत्यः, नातीतानागतं वास्तीति वर्तमानवादिनो नास्तिकादयः, एतद्दर्शनं च "चर खाद" इत्यादि, "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इत्यादि, सूक्ष्मस्थूलभेदात् ।
परिणतिसामान्य-विशेषपरिणतिक्षायोपशमिकौदयिकादिवर्तमानग्रहरूपः शब्दनयः । शब्द एवासौ अर्थकृतवस्तुविषयविशेषा(ष) प्रत्याख्यानेन 'शब्दकृतार्थविशेषं मन्यते । यदि अर्थाधीनः (यः यः (अर्थः धातोः) विशेषः स्यान्न शब्दकृतः । तेन घटवर्तमानकाले घट एव निर्विशेष: स्यात् । कर्म-करण-सम्प्रदानापादान-स्वाम्यादिविशेषान्नाप्नुयात् । ततश्च घटं पश्यत्येवमादिकारककृतो व्यवहारो विद्यते (छियेत) । अतः *समानलिङ्गादिशब्दसमुद्भावितमेवाभ्युपैति वस्तु, नेतरत् । नहि पुरुषः स्थाणुः । यदीष्येत वचनार्थहानिः स्यात् । भेदार्थं हि वचनम्, अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति, त्वं पचसि अहं पचामि पचावः पचामः इति पुरुषतः, एवमादि सर्वं परस्परविशेषव्याघातादवस्तु, परस्पर
१. शब्दकृतमेवार्थविशेषम् A.D., V.1 । ★ समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति नेतरत्, नहि पुरुषः स्त्री, यदीष्येत वचनार्थहानिः स्यात्, भेदार्थं हि वचनम्, अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति त्वं पचसि अहं पचामि पचावः पचामः इति पुरुषतः, एवमादि सर्वं परस्परविशेषव्याघातादवस्तु, परस्परव्याघाताच्चैवमाद्यवस्तु प्रतिपत्तव्यम्, यथा शिशिरो ज्वलनः, तथा विरुद्धविशेषत्वात् तटस्तटी तटमित्यवस्तु, रक्तनीलमिति यथा, यद् वस्तु तदविरुद्धविशेषमभ्युपयन्ति सन्तः यथा घटः कुटः कुम्भ इति । तथा चोच्यतेयत्र ह्यों वाचं न व्यभिचरत्यभिधानं तत्, एवमयं समानलिङ्गसङ्ख्यापुरुषवचनः शब्दः एतद्दर्शनानुगृहीतं चोच्यते- अर्थप्रवृत्तितत्त्वानां शब्द एव निबन्धनम् इति ।
[तत्त्वार्थसू०अ०१, सू०३४]
૧ ૨.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org