________________
श्रीज्ञानमञ्जरी न्तरसम्बन्धस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात् । किन्तु सर्वव्यपदेशविशेषाभिव्यङ्गयो भाव एव तेन तेन रूपेणाभिव्यज्यते । ततो घटाद्यन्यतरभेदश्रुतौ सर्वरूपभेदभावप्रतीतिप्रसङ्गः, ततश्च घटपटोदकादिरूपव्यतिकरभावप्रसङ्गः, उपदेशक्रियोपभोगापवर्गव्यवस्थादीनां चाभावात्सर्वसंव्यवहारोच्छेदः । सर्वविशेषव्याकरणे च निर्निबन्धनभवनाभावाद् भावाभाव एव । अविशेषत्वाभेदत्वानिरूप्यत्वादितश्च नैवासौ भावः खरविषाणादिवत् । तस्माद् व्यवहारोपनिपतितसामान्योपनिबन्धनं तु (यदेव यद्) यदा द्रव्यं पृथिवी-घटादि व्यपदिश्यते, तदेव तत्तदा त्रैलोक्याविभिन्नरूपं सततमवस्थितापरित्यक्तात्मसामान्यं महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कन्दतीति । एवंविधवस्तूपनिबन्धनैव च वर्णाश्रमप्रतिनियतयम-नियम-गम्यागम्य-भक्तादिव्यवस्था, कुम्भकारादेश्च मृदानयनाऽवमर्दनशिवकस्थासकादिकरणप्रवृत्ती वेतनकादिदानस्य साफल्यम् । अव्यवहार्यत्वाच्च शेषमवस्तु व्योमेन्दीवरादिवदिति । ... ऋजु-सममकुटिलं सूत्रयति ऋजु वा श्रुतमागमोऽस्येति सूत्रपातनबद्धः ऋजुसूत्रः । यस्मादतीतानागतवस्तुपरित्यागेन वर्तमानपदवीमनुधावत्यतः साम्प्रतकालावरुद्धपदार्थत्वाद् ऋजुसूत्रः । एष च भावविषयप्रकारातीतानागतवस्तुपरित्यागे विषयवचनपरिच्छेदे प्रवृत्तः सर्वविकल्पातीतातिसंप्रमुग्धसंग्रहाग्रहाविशिष्टत्वाद् व्यवहारस्यायथार्थतां मन्यमानः अचरणपुरुषगरुडवेगव्यपदेशवद् वर्तमानक्षणसमवस्थितिपरमार्थं व्यवस्थापयति । अतीतानागताभ्युपगमस्तु खरविषाणास्तित्वाभ्युपगमान्न भिद्यते । दग्धमृतापध्वस्तविषयश्च अनाश्वासः न कस्यचिदपि स्यात् । अघटादिलक्षणमृदाद्यनर्थान्तरत्वाच्च घटादिकालेऽपि घटादि नैव स्यात् । न च (तदेव) तदेकं मृद्रव्यमन्यथा वर्त्तते, किं तर्हि ? अन्यदेवान्यप्रत्ययवशात् अन्यथोत्पद्यते इति । न च पिण्डादिक्रियाकाले कुम्भकार
१. व्यङ्गयते A.D., B.1. । २. भेदाभाव० सर्वप्रतिषु । ३. घटपटादि V.2., घटपटकादि S.M. । ४. प्रतिनियम० S.M., V.2 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org