________________
माध्यस्थाष्टकम् (१६)
११५ . सत्तामात्रेण सामान्यबुद्धिचेतना (हेतुना) अशोकवनादिषु सत्स्वप्यनेकजातिवृक्षेषु वनस्पतिसामान्यात् 'वनम्' इत्यवबोधः । (सामान्य-) वचनहेतुना च द्रव्यम् इत्यादि जीवाजीवविभागविकलः । 'तथा विशेषेणापि (विशेष) बुद्धिहेतुना विशेषवचनहेतुतारूपा हेतुना अत्यन्तसामान्यादन्यत्वरूपेण व्यवहरति परमाणुनिष्ठत्वेन । तथा सामान्यविशेषेणापि गवादिना सर्वगोपिण्डेष्वनुवृत्त्यात्मकेन अश्वादिव्यावृत्त्यात्मकेन च व्यवहरति । यथा लोको व्यवहरति, तथाऽनेन व्यवहर्त्तव्यमिति, लोकञ्चोपदिष्टैः प्रकारैः समस्तैः व्यवहरति । प्रवचने च वसतिप्रस्थकनिदर्शनद्वयेन विभावितः, काणभुजराद्धान्तहेतुरवगन्तव्यः । स च अंश-सङ्कल्पभेदाद् द्विविधः, स च सदसद्-योग्यताभूतपूर्वारोपभेदाद् अतीताऽनागतवर्तमानतदारोपादिभेदाद् अनेकविधः, नामनिक्षेपतो द्रव्यनिक्षेपवृत्तिः, अंशोपलम्भे सर्वारोपः, अन्यसमस्तसापेक्षः नैगमः सुनयः ।
अभेदेन-वस्तुसामान्येन संग्रहणात् सर्वस्य सर्वं संगृह्णातीति संग्रहः, वस्तुसत्ताग्राहकः संग्रहः । यदि भवनाभिसम्बद्धस्यैव भावत्वमभ्युपगम्यते ततः परिसमापितात्मस्वरूपित्वाद् भावस्य भ्रान्तिसमुपनिबन्धनघटादिविकल्प(प्रकल्पन)मानर्थक्यम् । यदि घटादिविकल्पोऽपि भवनप्रवृत्तितन्त्रमेवेत्येवं सति भाव एव, तदनन्तरत्वात् तत्स्वात्मवत् । भवनार्थान्तरत्वे व्योमोत्पलादिवदसत्त्वम्, विकल्पानां रासभविषाणादिसत्त्वं वा, घटादिवद् भवनानान्तरत्वात् । एतदर्शनपुरःसरा एव च सर्वनित्यैकत्वं कारणमात्रवादाः कालपुरुषस्वभावादयश्चेति । अत्र द्रव्यास्तिकभेदा जीवाजीवयोग्यत्वसव्व्य-उपचारद्रव्य-एकत्वाभेदादिगोचरभेदादनेकभेदः । भावनिश्चयसामान्याभेदसंगृहीतानां विधिपूर्वकावस्थादिभेदेन विभजनं-भेदकरणलक्षणं तत्तद्धर्मप्रवृत्तिभिन्नज्ञानरूपः व्यवहारः । यदि घटादिभेदश्रुत्या स्वसामान्यानुबद्धस्य निरस्तसामान्या
१. तद्वा A.D., S.M., B.1.2, V.2 | २. चान्योत्प० सर्वप्रतिषु । ३. कत्वा० सर्वप्रतिषु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org