________________
११४
श्रीज्ञानमञ्जरी नयेषु स्वार्थसत्येषु, मोघेषु परचालने । समशीलं मनो यस्य, स मध्यस्थो महामुनिः ॥३॥
नयेषु इति–स महामुनिः मध्यस्थ उच्यते, यस्य मनः नयेषु समशीलं-नयान्तरोक्तवस्तुधर्मेषु तत्प्रवर्त्तनेषु मनः समभावलक्षणं स्वपक्षपातरहितम्, कथम्भूतेषु नयेषु ? स्वार्थसत्येषु, स्वस्य अर्थः स्वार्थः, तस्मिन् सत्येषु स्वाभिमतस्थापनकुशलेषु, परचालने-परस्थापने मोघेषु-निष्फलेषु, परपक्षस्थापनेऽसत्येषु स्वमतस्थापने धीरेषु यः समः'इष्टताऽनिष्टतारहितोपयोगः यथार्थविभजनशीलः स मुनिः मध्यस्थः । नयस्वरूपं गीयते च-अनेकधर्मकदम्बकोपेतस्य वस्तुनः एकेन धर्मेणोन्नयनमवधारणात्मकं वस्तुनः एकांशपरिच्छेदकं ज्ञानं नयव्यपदेशमास्कन्दति । नयस्य स्वार्थग्राहकता नित्यमेवेदमनित्यमेवेदमित्येकान्तज्ञानमेकपक्षस्थापनरूपं मिथ्याज्ञानम् । सर्वनयस्थापनपरं सर्वस्वभावात्मवस्तुस्वरूपसापेक्षं गौणमुख्यत्वेन अर्पितानर्पितोपयोगमेकांशज्ञानं नयज्ञानम् । तदेवान्यनयोच्छेदरूपं दुर्नयव्यपदेशं लभते । सर्वसापेक्षतया स्वरूपवृत्तिज्ञानं सुनयः । उक्तं च सन्मतौ[71] तम्हा सव्वे वि नया, मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोण्णणिस्सिया पुण, हवन्ति सम्मत्तसब्भावा ॥२१॥
[कां-१, गा०२१] ते च नयाः सप्त, नैगमः १ संग्रहः २ व्यवहारः ३ ऋजुसूत्रः ४ शब्दः ५ समभिरूढः ६ एवंभूतः ७ । एवमेषु चत्वारो द्रव्यनयाः, त्रयः भावनयाः, इति पूज्याशयः । दिवाकरास्तु-आधाः त्रयः द्रव्यनयाः, तथा शेषाः चत्वारः भावनयाः । तत्र निगम्यन्ते-परिच्छिद्यन्ते इति निगमा गमा लौकिका अर्थाः, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानांशः (ज्ञानाख्यः) स नैगमः । स च सामान्येनाऽपि व्यवहरति । सामान्यबुद्धिहेतुना सामान्यवचनहेतुना च, अत्यन्तभेदेभ्योऽन्यत्वरूपेण १. इष्टानिष्टता A.D., B.1.2, S.M. । २. तदन्य B.1.2, S.M., V. 2 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org