________________
१२०
श्रीज्ञानमञ्जरी भिर्व्यवहरन्ति, तेषामुपचारप्रायः इति । “उपचारो नामान्यत्र सिद्धस्यार्थस्यान्यत्रारोपो यः" । यथा- कुण्डिका स्रवति, पन्था गच्छति, उदके कुण्डिकास्थे स्त्रवति सति कुण्डिका स्रवतीत्युच्यते, पुरुषे च गच्छति पन्था गच्छति इति, एवमुपचारबहुल इत्यर्थः । विस्तृतो विस्तीर्णोऽनेकार्थो (ज्ञेयो) यस्य सः विस्तृतार्थः, अध्यवसायविशेषो व्यवहार इति निगद्यते । ____ऋजुसूत्रलक्षणं व्याचिख्यासया आह- (सतां साम्प्रतानामनामभिधानपरिज्ञानमृजुसूत्रः । त०भा०१।३५) सतां विद्यमानानाम्, न खपुष्पादीनामसताम् तेषामपि सत्तानां (साम्प्रतानां) वर्तमानानाम् अर्थानाम् (घटादीनाम्) अभिधानं-शब्दः, परिज्ञानम्-अवबोधो विज्ञानं यत् स भवति ऋजुसूत्रः । एतदुक्तं भवति–तानेव व्यवहारनयाभिमतान् विशेषान् आश्रयन् विद्यमानान् वर्तमानक्षणवर्तिनोऽभ्युपगच्छन्नभिधानमपि वर्तमानमेवाभ्युपैति, नातीतानागते, तेन अनभिधीयमानत्वात् कस्यचिदर्थस्य, तथा परिज्ञानमपि वर्तमानमेवाश्रयति नातीतमागामि वा, तत्स्वभावानवधारणात् । अतो वस्त्वभिधानं विज्ञानं चात्मीयं वर्तमानमेवेतीत्थमध्यवसायः स ऋजुसूत्रः इति ।
'यथार्थाभिधानं शब्दनयः' (त०भा० १/३५) यथेति-येन कारणेन भावरूपेणनामस्थापनाद्रव्यवियुतेनार्थो घटादिः यथार्थः, तस्याभिधानं शब्दः; यथार्थाभिधानम्, तदाश्रयी योऽध्यवसायः स शब्दनयतयाभिधीयते, वर्तमानमात्मीयं विद्यमानं भावघटमेवाश्रयति नेतरानिति । _ (नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः त०भा० १/३५) अर्थ-अभिधेये यः प्रत्ययो-विज्ञानं स साम्प्रतो नयः । एतदुक्तं भवति
उपचारप्राय इति । उपचारो नामान्यत्र सिद्धस्यार्थस्यान्यत्राध्यारोपो यः, यथा कुण्डिका स्रवति, पन्था गच्छति, उदके कुण्डिकास्थे स्रवति कुण्डिका स्रवतीत्युच्यते, पुरुषे च गच्छति पन्था गच्छतीति । एवमुपचारप्राय उपचारबहुल इत्यर्थः । विस्तृतो-विस्तीर्णोऽनेकोऽर्थो ज्ञेयो यस्य स विस्तृतार्थः अध्यवसायविशेषो व्यवहार इति निगद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org