________________
मौनाष्टकम् (१३)
निर्मलनिष्कलङ्कज्ञानदर्शनोपयोगलक्षणः आत्मा, तज्ज्ञानं ज्ञानम् । उक्तं च
देहदेवल जो वसै, देव अणाइ अणंत । सो पर जाणहु जोइया, अन्न न तं तं नमंत ॥१॥
आत्मज्ञानेनैव सिद्धिः । साध्यमपि पूर्णात्मज्ञानम्, तदर्थमेव विवदन्ति(न्ते)दर्शनान्तरीयाः । प्राणामयन्ति रेचकादिपवनम्, अवलम्बयन्ति मौनम्, भ्रमन्ति गिरिवननिकुञ्जेषु, तथाप्यर्हत्प्रणीतागमश्रवणाप्तस्याद्वादस्वपरपरीक्षापरीक्षितं स्वस्वभावावबोधमन्तरेण न कार्यसिद्धिः । अतः प्राप्तावसरे तदेवानन्तगुणपर्यायात्मकमात्मज्ञानमात्मनाऽऽत्मनि करणीयम् । उक्तं च
आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते । अभ्यस्यं तत्तथा तेन, येन ज्ञानमयो भवेत् ॥१॥ ५॥ यथा शोफस्य पुष्टत्वम्, यथा वा वध्यमण्डनम् । तथा जानन् भवोन्माद-मात्मतृप्तो मुनिर्भवेत् ॥६॥
यथा शोफस्येति-यथा-येन प्रकारेण, शोफस्य पुष्टत्वं-शरीरस्थौल्यं न पुष्टत्वे इष्टम्, वा-अथवा, यथा वध्यस्य मारणार्थं स्थापितस्य मण्डनं-कणवीरमालाधारोपणात्मकमेवंरूपं भवोन्मादं जानन् भवस्वरूपमेवंविधं जानन् मुनिः-समस्तपरभावत्यागी आत्मतृप्तः-आत्मस्वरूपे अनन्तगुणात्मके तृप्तः-तुष्टः भवेत् । संसारस्वरूपमसारं निष्फलम् अभोग्यं तु तद् ज्ञात्वा मुनिः स्वरूपे मग्नो भवति ॥६॥
सुलभं वागनुच्चारम्, मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ॥७॥
सुलभमिति–वागनुच्चारं-वचनाप्रलापरूपम्, मौनं सुलभं-सुप्राप्यम्, तद् एकेन्द्रियेष्वपि अस्ति । तन्मौनं मोक्षसाधकं नास्ति । पुद्गलेषुपुद्गलस्कन्धजवर्ण-गन्ध-रस-स्पर्शसंस्थानादिषु योगानां-द्रव्यभावमनोवचनकाययोगानां या अप्रवृत्तिः रम्या, रम्यतया अव्यापकत्वम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org