SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी अमणौ मणिश्रद्धा, तस्मिन् तत्फलं न लभ्यते-न प्राप्यते, यतः-यत् मणेः सकाशात् मणिप्रवृत्तिः विषापहारादिका न भवतीत्यर्थः। उक्तं च[5]पुल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा । राढामणी वेरुलियप्पगासे, अमहग्घओ होइ हु जाणएसु ॥४२॥४॥ [उत्तरा० अ०-२० गा० ४२] तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा, न तद् ज्ञानं न दर्शनम् ॥५॥ तथा इति-तथा-तेन प्रकारेण, यत-एकान्तद्रव्याचरणचारित्रात्, शुद्धात्मस्वभावाचरणं-शुद्धः-परभावरहितः योऽसौ आत्मस्वभावःस्वरूपलक्षणः तस्याचरणं-तदैकत्वं तन्मयत्वं न भवेत् तेन प्रवर्त्तनेन फलं-शुद्धात्मस्वभावलाभरूपं न परमात्मपदनिष्पत्तिः, न दोषाणांरागादीनां निवृत्तिः-अभावः न वा, अथवा तत्सर्वमपि प्रवर्तनं बाललीलाकल्पं शुद्धात्मस्वरूपालम्बनमन्तरेण अवेद्यसंवेद्यरूपं ज्ञानं तत् ज्ञानं तथा सकलपरभावसङ्गौपाधिकाशुद्धात्माध्यवसायमुक्ततात्त्विकामूर्तचिन्मयानन्दात्मीयसहजभाव एवाहमिति निर्धारविकलं तदर्शनं न नैवेत्यर्थः । अत एव श्रुतेन केवलात्मज्ञानं तदभेदज्ञानमुत्सर्गज्ञानं च श्रुताक्षरावलम्बि सर्वद्रव्योपयोगं भेदज्ञानं सर्वाक्षरसम्पन्नश्च यावद् द्रव्यशुभावलम्बी तावद्भेदज्ञानी । उक्तं च समयप्राभृते- . [54] जो सुएणभिगच्छइ, अप्पाणमिणं तु केवलं सुद्धं । तं सुअकेवलमिसिणो, भणंति लोगप्पदीवयरा ॥९॥ जो सुअनाणं सव्वं, जाणइ सुअकेवली तमाहु जिणा । नाणं आया सव्वं, जम्हा सुअकेवली तम्हा ॥१०॥ आत्मस्वरूपज्ञानं च प्राभृते[55] *अहमिक्को खलु सुद्धो, णिम्ममओ नाणदसणसमग्गो । तम्हि ठिओ तच्चित्तो, सव्वे एए खयं नेमि ॥७३॥ [सम०सागा०७३] १. न न भवती B.1., A.D. I * आगमसारः गा० ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy