________________
मौनाष्टकम् (१३)
पुनः हरिभद्रपूज्यैः षोडशके [51] बालः पश्यति लिङ्गम्, मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥१२॥
[षोड०प्र० षो०-१ श्लो०२] अतः तत्त्वैकत्वं चारित्रम्, पुनस्तदेव द्रढयतिचारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः । शुद्धज्ञाननये साध्यः, क्रियालाभात् क्रियानये ॥३॥
चारित्रमिति-आत्मचरणात्-आत्मस्वरूपरमणात् परभावप्रवृत्तित्यागात् चारित्रम्, आत्मस्वरूपावबोधः ज्ञानम्, स्वीयासङ्ख्येयप्रदेशव्याप्यव्यापकत्वेन सहजलक्षणज्ञानाद्यनन्तपर्यायः अहम्, नान्यः इति निर्धारः दर्शनम्, इत्यनेन आत्मा ज्ञानदर्शनोपयोगगुणद्वयलक्षणः । एवमुक्तं च भाष्ये आत्मनः गुणद्वयमेव व्याख्यानयन्ति इति तन्मते, ज्ञाने स्थिरत्वं चारित्रम्, तेन ज्ञानचारित्रयोरभेद एव । ज्ञानमेवात्मपरिणामव्यापृतं सम्यक्त्वमाश्रवरोधः, तत्त्वज्ञानैकता चारित्रमेवं व्यापारभेदात् ज्ञानस्यैवावस्थात्रयम् । उक्तं च[52] एवं जिणपण्णत्ते, सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे, दसणसद्दो हवइ जुत्तो ॥३२॥
[सन्म० कां-२, गा० ३२] तथा च क्रियानये क्रियालाभात् साध्यनिष्पादनाय इति । प्रथमं च क्रियानयसाध्यं तत्त्वप्राग्भावे च सर्वं ज्ञाननयसाध्यमस्ति । वस्तुतः ज्ञानप्रवृत्तिरेव चरणं ज्ञानमयसेवात्मधर्मत्वात् अतः ज्ञानस्वरूप एवात्मा ॥३॥
यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्ति-मणिश्रद्धा च सा यथा ॥४॥
यतः प्रवृत्तिरिति-अशुद्धज्ञाने निष्फलत्वं द्रढयति यथा अतात्त्विकी मणिज्ञप्तिः-अमणौ मण्यारोपा अतात्त्विकी ज्ञप्तिः-ज्ञानं तत्त्वरहितम् १. वृत्ति सर्वप्रतिषु । २. परिणाममयीवृत्तिः S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org