________________
९४
श्रीज्ञानमञ्जरी तदभिमुखं वीर्यापसरणपरिसर्पणरहितं मौनमुत्तमं प्रशस्यम् । भावना च परभावानुगचेतनावीर्यप्रवर्त्तनं चापल्यं तद्रोधः मौनमुत्तममुत्कृष्टमायति आत्मनीनं यद् योगचापल्यं च नात्मकार्यम्, तेन तद्रोधः श्रेयान् । योगस्वरूपं [56] कर्मप्रकृतौ [बन्धक०गा०३...९] आत्मनो वीर्यगुणस्य क्षयोपशमप्राप्तस्यासंख्येयानि स्थानानि । सर्वजघन्यं प्रथमं योगस्थानं सूक्ष्मनिगोदिनः । एवं सूक्ष्मनिगोदेषु उत्पद्यमानस्य जन्तोः भवति। इह जीवस्य वीर्यं केवलिप्रज्ञाच्छेदनकेन छिद्यमानं छिद्यमानं यदा विभागं न प्रयच्छति तदा स एवांशोऽविभागः, ते च वीर्यस्याविभागाः एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, उत्कर्षतोऽप्येतत्सङ्ख्याः । किन्तु जघन्यपदभाविवीर्याविभागापेक्षया असङ्ख्येयगुणा द्रष्टव्याः । येषां जीवप्रदेशानां समाः तुल्यसङ्ख्यया वीर्याविभागा भवन्ति । सर्वेभ्योऽपि चान्येभ्योऽपि जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशाः घनीकृतलोकासंख्येयभागासङ्ख्येयप्रतरगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा । सा च जघन्या स्तोकाविभागयुक्तत्वात् जघन्यवर्गणा । अतः परे ये जीवप्रदेशाः एकेन वीर्याविभागेनाभ्यधिका घनीकृतलोकासङ्ख्येयभागवर्त्यसङ्ख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसङ्ख्याकानामेव जीवप्रदेशानामेव समुदायस्तृतीया वर्गणा । एवमेकैकवीर्याविभागवृद्ध्या वर्द्धमानानां तावतो(?त्यः) जीवप्रदेशानां समुदायरूपा वर्गणा असङ्ख्येया वक्तव्याः, ताश्च कियत्य इति ? इदं घनीकृतलोकस्य या एकैकप्रदेशपङ्कितरूपा श्रेणिः, तस्याः श्रेणेरसङ्ख्येयतमे भागे यावन्तः आकाशप्रदेशास्तावन्मात्रा वर्गणा समुदिता एकं स्पर्द्धकम्। "स्पर्धते इवोत्तरोत्तरवृद्ध्या वर्गणा अत्रेति स्पर्द्धकम् ।" पूर्वोक्तस्पर्द्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकेन वीर्याविभागेनाधिकाः प्राप्यन्ते नाऽपि द्वाभ्याम्, नाऽपि त्रिभिः, नाऽपि सङ्ख्येयैः, किन्त्वसङ्ख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते, ततस्तेषां समुदायो द्वितीयस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org