________________
८८
श्रीज्ञानमञ्जरी
दुःखयोः समासेन-संक्षेपेण एतद् लक्षणमुक्तं-कथितम् । इत्यनेन पराशा एव दुःखम् । यच्च निर्विकाराखण्डसच्चिदानन्दस्य स्वाभाविकात्मधर्मभोक्तुः परभावाभिलाष एव दुःखम्, तर्हि किं पराशा? इति । अस्यात्मनः स्वपरविवेकनिगृहीतपरभावाविर्भावितात्मानन्तानन्दस्य निःस्पृहत्वं धर्मः, तदास्वादनेन सुखमिति । अत एव स्पृहा त्याज्या, स्पृहा हि स्वसामर्थ्यशून्यस्य भवति । अयं तु पूर्णानन्दाखिलज्ञेयज्ञानवान् परमः पदार्थः सर्वपदार्थावगमस्वभावः शुद्धात्मीयानन्दभोगी । तस्य अनादिस्वतत्त्वानुभवभ्रष्टत्वेन परस्पृहां गतस्यापि साम्प्रतमव्याबाधात्मभावभावनया टण्कोत्कीर्णन्यायेन अवगतात्मस्वरूपस्य स्पृहा पराशा न भवतीत्युपदेशः ॥८॥
॥ इति व्याख्यातं निःस्पृहाष्टकम् ॥१२॥
॥ अथ मौनाष्टकम् ॥ एते च गुणाः पूर्वोक्ताः मुनेर्निर्ग्रन्थस्य भवन्ति, अतः मुनिस्वरूपं निर्दिशति । सन्ति च लोके अनिर्ग्रन्थाः निर्ग्रन्थारोपमत्ताः आत्माशुद्धाभिमानतः तत्त्वविवेकविकलाः । तेषामेवोपदेशाय विशुद्धगुरुतत्त्वावबोधार्थं चाह- तत्र मन्यते त्रिकालविषयत्वेन आत्मानमिति मुनिः। तत्र नाममुनिः स्थापनामुनिः सुगमः, द्रव्यमुनिः ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्तभेदात्, अनुपयुक्तो लिङ्गमात्रद्रव्यक्रियावृत्तिः साध्योपयोगशून्यस्य प्रवर्त्तनविकल्पादिषु कषायनिवृत्तस्य परिणतिचक्रे असंयमपरिणतस्य द्रव्यनिर्ग्रन्थत्वम्, भावमुनिः चारित्रमोहनीयक्षयोपशमोपशमक्षायिकोत्पन्नस्वरूपरमणपरभावनिवृत्तः परिणतिविकल्पप्रवृत्तिषु द्वादशकषायोद्रेकमुक्तः । नैगमसंग्रहव्यवहारनयैः द्रव्यक्रियाप्रवृत्त-द्रव्याश्रवविरक्तस्य मुनित्वम् । ऋजुसूत्रनयेन भावाभिलाषसङ्कल्पोपगतस्य, शब्दसमभिरूद्वैवंभूतनयैः प्रमत्तात् क्षीणमोहं यावत् परिणतो सामान्यविशेषचक्रे स्वतत्त्वैकत्वपरमसमतामृतरतस्य मुनित्वम् । अत्र सम्यग्१. त्मानन्दस्य S.M., B.2., L.D.1.,V.2. । २. आत्मानम B.1.2. V.1.2.
S.M. L.D.1
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org