________________
निःस्पृहाष्टकम् (१२)
८७ गुणात् स्वस्य कुलसम्पन्नतादिख्याति न प्रादुष्कुर्यात्-न प्रकटीकरोति इत्यादि । निःस्पृहाः१ महत्त्वं न ख्यापयन्ति न विशदीकुर्वन्ति, निःस्पृहस्य न यशोमहत्त्वाभिलाषः ॥६॥
भूशय्या भैक्षमशनम्, जीर्णं वासो गृहं वनम् । तथापि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम् ॥७॥
भूशय्या-इति भूः-वसुन्धरा एव शय्या-पल्यङ्कः भैक्षं-भिक्षया जातं भैक्षमशनं भोजनम् । उक्तं च
[48] अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । __मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१२॥
[श्रीदशवै० अ० ५. उ० १ गा०९२] तथा च वासो-वस्त्रम्, जीर्णम्, गृहं-स्थानं वनम्, तथापि अहो इति अद्भुतं निःस्पृहस्य-बाह्यसम्पद्विकलस्यापि, सुखं चक्रिणः सकाशात् स्वं चक्रवर्तिनः सुखमधिकमत्यन्तमिति चक्रवर्त्यादिगत्वरैः औपाधिकैः सुखैः सकाशाद् मुनिः स्वरूपजैः सहजानश्वरैः परमानन्दसुखैः पूर्णः । अतः जातिभेद एवायं इन्द्रियात्मसुखयोः । इन्द्रियजे सुखे सुखत्वमारोपितमेव, न च पुद्गलस्कन्धे तु सुखं सुखहेतुत्वं च । आत्मन्येवाच्छिन्नसुखपरम्परा, सुखस्य कर्तृत्वादिकारेकषट्कमात्मन्येव अतो वास्तवं सुखं जिनाज्ञानिगृहीतपरभावस्य निःस्पृहमुनेरेव, अतो निःस्पृहस्य महदिन्द्रियागोचरं स्वाभाविकं सुखमिति ॥७॥
परस्पृहा महादुःखम्, निःस्पृहत्वं महासुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥८॥
॥ इति निःस्पृहाष्टकम्' ॥ १२ ॥ परस्पृहेति-परस्य-परवस्तुनः पराद् वा स्पृहा-आशा महादुःखंमहत्कष्टम्, निःस्पृहत्वं-निर्वाञ्छकत्वम्, महासुखं-महानन्द इति सुख१. एष पाठो नास्ति सर्वप्रतिषु । २. स्व सर्वप्रतिषु । ३. कारके S.M., B.1.2., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org