________________
.
८९
मौनाष्टकम् (१३) ज्ञानदर्शनचारित्रप्राग्भाववतो द्रव्यभावाश्रवविरतस्वरूपरतस्यावसरः
मन्यते यो जगत्तत्वम्, स मुनिः परिकीर्तितः । सम्यक्त्वमेव तन्मौनम्, मौनं सम्यक्त्वमेव वा' ॥१॥
मन्यते इति-य:-शम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्यलक्षणलक्षितः, जगद्-लोकं जीवाजीवलक्षणम्, मन्यते-जानाति यथार्थोपयोगेन द्रव्यास्तिक-पर्यायास्तिक-स्वभाव-गुण-पर्यायैः निमित्तोपादानकारणकार्यभावोत्सर्गापवादपद्धत्या जानाति स मुनिः अवगृहीततत्त्वः परिकीर्तितः-कथितः श्रीतीर्थकरगणधरैः । मुनेः-निर्ग्रन्थस्य, एवेति निर्धारणे, तत् सम्यक्त्वं यत् यथा ज्ञातं तथा कृतमिति तत् सम्यक्त्वमेव मुनित्वं सम्यक्त्वं वा-पुनः सम्यक्त्वमेव मौनं निर्ग्रन्थत्वम् । अत्र यत् शुद्धश्रद्धाननिर्धारितात्मस्वभावः, तत्र अवस्थानं चरणम्, यच्च . सम्यग्दर्शनेन निर्धारितं सम्यग्ज्ञानेन विभक्तं स्वरूपोपादेयत्वं तच्च तथैव भवति रमणं चरणं मुनित्वम् । अतः सम्यक्श्रद्धागृहीतकरणं तत् एवंभूतनयेन सम्यक्त्वमेवम्, अत एव सम्यग्मुनित्वं सम्यक्स्वरूपम् । इति ज्ञपरिज्ञा-प्रत्याख्यानपरिज्ञाप्राप्तमेव कार्यसाधकम्, तेन सम्यक्त्वमुनित्वे अभेदः सम्यग्दृष्टिभिः यच्चतुर्थगुणस्थानस्थैः साध्यत्वेन धारितं तथाकरणे यत्र मुनिभावे निष्पादिते सिद्धावस्थायाम्, इत्यनेन शुद्धसिद्धत्वस्य धर्मनिर्धारः सम्यक्त्वम् । आचाराने:-[49] जं सम्मं ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा । ण इमं सक्कं सिढिलेहिं अदिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मुणी मोणं समायाए धुणे कम्मसरीरगं पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो ॥ [आचा०-श्रुत० १. अ०-५, उ०-३ सू०१५५] तथा च पञ्चास्तिकायेषु जीवः चेतनालक्षणः, तत्र स्वीयात्मबद्धोऽपि विभावग्रस्तोऽपि सत्तया निर्मलानन्दी निर्धार्य तदावरणविगमाय मोहहेतून् द्रव्याश्रवान् हेयतयोपलक्षितान् हेयतया .करोतीति सम्यक्त्वं मुनिस्वरूपम् ॥१॥
१. च. सर्वप्रतिषु । २. अवगततत्त्व: V.1., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org