________________
८०
लिप्तताज्ञानसंपात-प्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥ ४॥
लिप्तता इति - निर्लेपज्ञानमग्नस्य- शुद्धस्याद्वादात्मज्ञानमग्नस्य पुंसः क्रिया - आवश्यककरणरूपा, लिप्तताज्ञानसंपातप्रतिघाताय - लिप्तताज्ञानंविभावचेतनोपयोगः, तत्र सम्पातः - पतनं तस्य प्रतिघाताय - ' निवारणाय केवलमुपयुज्यते-उपकारीभवति, इत्यनेन ध्यानारूढस्य न क्रियाकरणम्, किन्तु भावनाचिन्ताज्ञानवतो विघ्नवारणाय क्रिया उपकारिणी । ध्यानाधिरूढस्याप्रच्युतात्मस्वभावानुभवस्थस्य विघातनी । आगमेऽपि - पूर्वं यदमृतकुम्भोपमं तदेवोपरि विषकुम्भोपमम् । उक्तं च
श्रीज्ञानमञ्जरी
जा किरिया सुट्टयरी सा विसुद्धीए न अप्पधम्मोति । पुवि हिया पच्छा अहिया जह निस्सिहाइतिगं ॥१॥ अत एव आत्मस्वरूपावबोधैकत्वं हितम् ||४||
--
?
तपः श्रुतादिना मत्तः क्रियावानपि लिप्यते । २ भावनाज्ञानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥ ५ ॥
Jain Education International
तपः श्रुतादिना इति - क्रियावान् अपि जिनकल्पादितुल्यक्रियाभ्यासी अपि तपः श्रुतादिना मत्तः-मानी अभिनवकर्मग्रहणैलिप्यते । न च रुषादयोत्कृष्टा क्रिया हितकारिणी । उक्तम्- आचाराङ्गे:- [40]'' से वंता कोहं च माणं च मायं च लोभं च एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं सगडब्धि || सू० १२१ ॥ इति । [आचा० श्रुत०१, अ० ३, उ०४, सू० १२१]
पुनः [41] ( जे ममाइयमई जहाइ से चयइ ममाइयं, से हु दिपहे मुणी जस्स नत्थि ममाइयं, तं परिण्णाय मेहावी विइत्ता लोगं) वंता लोगसन्नं से मइमं परिक्कमेज्जासि त्ति बेमि । ॥ सू०९८ ।। [आचा० श्रुत०१, अ०२, उ०६, सू० ९८]
१. निरावरणाय S. M., V.2., B.2. । २. भावज्ञानं च संपन्नो V.2., B.2. I
For Private & Personal Use Only
www.jainelibrary.org