________________
८१
निर्लेपाष्टकम् (११)
पुनः [42] (से जं च आरभे जं च नारभे, अणारद्धं च न आरभे छणं छणं) "परिण्णाय-लोगसन्नं च सव्वसो । उद्देसो पासगस्स नत्थि बाले पुण णिहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवट्ठे अणुपरियट्टइ त्ति । ।सू०१०३-४॥
[आचा० श्रु० १. अ०-२. उ० ६. सू०-१०३-४] अतः क्रियादिमत्तः आहारादिचतस्रः (क्रोधादिचतस्रः) ओघलोक-सुख-दुःख-शोक-वितिगिच्छा-मोहाभिधानपञ्चदशसंज्ञया धर्माभ्यासः 'प्रवृत्तिर्न धर्मः' इत्याचाराङ्गवृत्तौ । भावना-अनुप्रेक्षा तज्ज्ञानमग्नो निष्क्रियोऽपि तादृक्तीव्रतरवीर्याप्रवृत्तो न लिप्यते-न बध्यते । उक्तं च सूयगडांगे[43]न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खवेंति वीरा । मेहाविणो लोभमयावतीता, संतोसिणो नोपकरेंति पावं ॥१५॥
[श्रुत० १ अ० १२. गा० १५] [44] जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाई मेहावी, अज्झप्पेणं समाहरे ॥१६॥
[श्रुत० १ अ० ८ गा० १६] इत्यनेन 'भावनाज्ञानं तत्त्वैकत्वानुभवान्वितं सम्यग्ज्ञानम्, तेन युक्तो न लिप्यते सर्वः सत्क्रियाभ्यासः शुद्धसिद्धात्मस्वरूपाविर्भावसाध्यतत्त्वज्ञानानुभवयुक्तस्य हिताय भवति ॥५॥
अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः । . शुद्धयत्यलिप्तया ज्ञानी, क्रियावान् लिप्तया दृशा ॥६॥
अलिप्त इति- निश्चयेन-निश्चयरूपेण नयेन स्वरूपेण जात्या इत्यर्थः । आत्मा-चेतनः, अलिप्तः-पुद्गलाश्लेषरहितः, च-पुनः, व्यवहारतो बाह्यप्रवृत्तिसोपाधिकत्वतः अयमात्मा लिप्तः । अतः परसंसर्गजन्यव्यवहारत्यागे यतितव्यम् । अत एवाऽलिप्तया दृशा शुद्ध
१. भावज्ञानं V.2., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org