SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ निर्लेपाटकम् (११) भावात् । न रसस्थौ, रसस्य आस्वादनरूपत्वात् । अतः पूरणगलनगुणाविभागानामेव व्यधिकत्वं स्निग्धरूक्षस्पर्शसङ्गपरिणतं स्कन्धत्वहेतुः, अतः पुद्गलैः पुद्गला एव लिप्यन्ते । अहं निर्मलानन्दचिद्रूपः न पुद्गलाश्लेषी, अतः शुद्धात्मा पुद्गलैर्न लिप्यते, वस्तुवृत्त्या पुद्गलात्मनोः तादात्म्यसम्बन्ध एव नास्ति । संयोगसम्बन्धस्त्वौपाधिकः । इति ध्यायन् चित्राञ्जनैर्न व्योम इव न लिप्यते । यथा व्योम-आकाशं चित्रैः अञ्जनैः संलिप्यमानमपि न लिप्यते तथा अहमपि अमूर्तात्मस्वभाव: पुद्गलैः एकक्षेत्रावगाडैः न लिप्ये । यो हि आत्मस्वभाववेदी स्ववीर्य ज्ञानादिशक्तिमात्मनि व्यापारयन् अभिनवकर्मग्रहणैर्न लिप्यते । यावती आत्मशक्तिः परानुयायिनी तावान् आश्रवः, स्वरूपानुयायिनी स्वशक्तिः संवरः इति रहस्यम् । अत्र च आत्मज्ञानमात्रसन्तुष्टा रागद्वेषप्रविष्टाः सम्यग्दर्शनादिगुणभ्रष्टाः आत्मानमबन्धतया जानन्ति ते निरस्ताः, उक्तं च उत्तराध्ययने [39] भणंता अकरंता य, बन्धमुक्खपइन्निणो । वायाविरियमित्तेण, समासासंति अप्पयं ॥१०॥ न चित्ता तायए भासा, कओ विज्जाणुसासणं । विसन्ना पावकम्मेहि, बाला पंडियमाणिणो ॥११॥ (अध्य० ६. गा. १०-११) अत एव तत्त्वश्रद्धानसम्यग्ज्ञानोपयुक्ता यदात्मनः क्षायोपशमिकचेतना वीर्यादिशक्कीन् परभावविभावाद् आकृष्य आत्मगुणे प्रवर्तयति तावती अबन्धकता । शेषा यावती परानुगा विषयकषायचापल्यशक्तिः तावती बन्धकता । एवं सर्वात्मशक्तिः स्वरूपविश्रामरमणरूपा तदा सर्वात्मना अबन्धकः इति सिद्धान्तः ॥३॥ १. परिणितं B.1.2., V.1.2. 1 २. अन्यच्च V.2. । ३. आत्मा अब० B.1.2., V.2.1., S.M., A.D. 1 ४. चापल्यताशक्तिः S.M. विना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy