________________
७६
उभयोरपि । यच्च स्वादानुभवा तृप्तिः शतम, पूजयन्ति
..... श्रीज्ञानमञ्जरी सायासायं दुक्खं, तव्विरहम्मि अ सुहं जओ तेणं । देहिदिएसु दुक्खं, सुक्खं देदियाभावे ॥२०११॥
इति सातासातयोविपाकभेद एव नत्वावरणे । अव्याबाधावरणत्वं तु उभयोरपि । यच्च स्वगुणान् घातयति तदुदयः कः सुखत्वेनोरुरीकुरुते ? इति आत्मनः ज्ञानानन्दानुभवा तृप्तिः प्रशस्या, नौपाधिकी । इत्यनेन तया एव सम्यग्दर्शनिनः स्तुवन्ति अर्हन्तम्, पूजयन्ति परमात्मानम्, 'देशविरता अपि सामायिकपौषधोपवासिनः आत्मानुभवलवास्वादनार्थमेव तिष्ठन्ति एकान्ते मुनयस्तन्निष्पादनाय त्यजन्ति पञ्चाश्रवान्, तद्विघाताय गृह्णन्ति भीष्मग्रीष्मतप्तशिलातापातापनाम्, शिशिरहिमनिशाकरकराभिघातक्षुब्धा वसन्ति निर्वसना वने, स्वाध्यायन्ति आगमव्यूहान्, क्षमादिधर्मद्वारा भावयन्ति आत्मानम्, तत्त्वज्ञानेन आरोहन्ति गुणश्रेणिशृङ्गे, चिन्तयन्ति तत्त्वैकत्वं तत्त्वसमाध्यर्थमेव प्राणायामादिप्रयासः जिनकल्पादिकल्पः इति सा स्वभावानुभवतृप्तिः सर्वैरभ्यस्या ॥८॥ ॥ इति व्याख्यातं तृप्त्यष्टकं दशमम् ॥१०॥
॥ अथ निर्लेपाष्टकम् ॥ अथ अलिप्तस्य तत्त्वसमाधिर्भवति पूर्णानन्दतृप्तिरपि अलिप्तस्य, तेन निर्लेपाष्टकं प्रस्तूयते । चेतनस्य सकलपरभावसंयोगाभावेन व्याप्यव्यापकग्राहककर्तृत्वभोक्तृत्वादिशक्तीनां स्वभावावस्थानं निर्लेपः । नामतो निर्लेपः अभिलाप्यात्मक: जीवाजीवानाम्, स्थापनानिर्लेपः निर्ग्रन्थाकारादिः, द्रव्यनिर्लेपः कांस्यपात्रादिः तद्व्यतिरिक्तः, शेषस्तु पूर्ववत्, भावनिर्लेपः जीवाजीवाभेदाश्च', अजीवो धर्माधर्माकाशादिः जीवस्तु समस्तविभावाभिष्वङ्गरहितः मुक्तात्मा, नयैस्तु द्रव्यपरिग्रहादिष्वलिप्तः नैगमेन, संग्रहेण जीवो जात्या अलिप्तः, व्यवहारेणालिप्तो द्रव्यतस्त्यागी, शब्दनयेन सम्यग्दर्शनसम्यग्ज्ञानपरिच्छिन्नपरभावपरित्यागी तन्निमित्त
१. तद्वच्या A.D., V.1. । २. दिग्वि० S.M., विना । ३. स्व० A.D., V.1. L.D.1. विना । ४. वितन्यते S.M., B.2. । ५. जीववेदाश्च B.1.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org