________________
तृप्त्यष्टकम् (१०)
७५ अङ्गरागाङ्गनालिङ्गनादिकैः, विषयोर्मिविषोद्गारः स्यात्-भवेत्, विषय:इन्द्रियविलासः स एव विषयोद्गार:-प्रकाशः स्यात् । उक्तं चजह जह पुग्गलभोगो, तह तह वा विसयं पि कसाई । इंदियसुहा दुहा खलु, अगिज्झा तओ विरत्ताणं ॥१॥ ____ ज्ञानतृप्तस्य-स्वात्मतत्त्वावबोधपूर्णस्य, ध्यानं-तत्त्वैकत्वम्, यत् सुधा-अमृतं तस्य उद्गारः तस्य परम्परा श्रेणिर्भवेत् निरामय-निर्मलपरमात्मानुभवस्तृप्तेः लक्षणमेतत् तत्त्वभावना-तत्त्वज्ञान-तत्त्वध्यानामृतोद्गारपरम्परावृद्धिः ॥७॥
सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो । भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः ॥८॥
॥ इति तृप्त्यष्टकम् ।। १०॥ सुखिनो इति-अहो ! इति आश्चर्ये, इन्द्रोपेन्द्रादयः-इन्द्रः-शक्रः, उपेन्द्रः-कृष्णः, इत्यादयः अनेके न सुखिनः-सुखमयाः न । कथंभूता इन्द्रोपेन्द्रादयः ? विषयातृप्ताः-विषयैः-मनोजेन्द्रियसंयोगैः, अतृप्ताः अनेकवनिताविलासषड्रसग्राससुरभिकुसुमवासरम्यावासादिभिः मृदुशब्दाकर्णनवर्ण्यवर्णावलोकनैः संख्येयासंख्यकालभोगैः अतृप्ताः । न च एते तृप्तिहेतवः । असदारोप एवायं लोके-चतुर्दशरज्ज्वात्मके अनन्तसकर्मजीवात्मके, एकः भिक्षुः आहारागृध्नः संयमयात्रार्थं भिक्षणशीलः निष्परिग्रहः सुखी अस्ति । ज्ञानं-स्वरूपावबोधः तेन तृप्तः, निरञ्जन:रागाद्यञ्जनश्यामतारहितः, स्वधर्मभोगवत्त्वात् । “यद्वस्तुनि यो धर्मो न भवति ततो न जायते ।" उक्तं च विशेषावश्यके:[] जत्तो च्चिय पच्चक्खं सोम्म ! सुहं नत्थि दुक्खमेवेदं ।
तप्पडियारविभत्तं, तो पुण्णफलं ति दुक्खं ति ॥२००५॥ विसयसुहं दुक्खं चिय, दुक्खप्पडियारओ त्तिगिच्छव्व । तं सुहमुवयाराओ, न उवयारो विणा तच्चं ॥२००६॥ १. तच्चरत्ताणं S.M., V.1.2., B.1.2 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org