________________
निर्लेपाष्टकम् ( ११ )
७७
भूतान् (नि) धनस्वजनोपकरणान् (नि) तेष्वनासक्तः, समभिरूढेन अरिहन्ता (अर्हदा-) दिनिमित्तैर्बहुतरैः परिणमनैरलिप्तत्वात् क्षीणमोहो जिन: केवली चालिप्तः, एवंभूतेन सिद्धः सर्वपर्यायैरलिप्तत्वात्, वाचनान्तरे तु नैगमालिप्तः अंशत्यागी नैगमाकाररूपेण, संग्रहेण सम्यग्दर्शनासत्तया आत्मानं सर्वथा विभक्तत्वात् व्यवहारेण तच्छ्रद्धया अपास्तरागादिलेपत्यागात्, ऋजुसूत्रस्तु सन्निमित्तादिष्वरक्तत्वेनावलम्बनात्, शब्दतः अभिसन्धिजवीर्यबुद्धिपूर्वकोपयोगस्य रागादिषु अपरिणमनात्, समभिरूढतः सर्वचेतना सर्वजीवस्य विभावाश्लेषरहितत्वात्, एवंभूतत: ५ पूर्वाभ्यासचक्रभ्रैमादिभवोपग्राहिसर्वपुद्गलसंगरहितस्य सिद्धस्य निर्लेपत्वम् । पुनर्निक्षेपत्रये नयचतुष्टयम्, भावनिक्षेपे पर्यायालिप्तत्वेन 'अन्तिमनयत्रयमिति' तत्त्वार्थवृत्तेराशयः अत्र भावसम्यक्साधकनिर्लेपाधिकारः ।
संसारे निवसन् स्वार्थ- सज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते ॥१॥
८
संसारे इति - निखिल :- समस्तो लोकः कज्जलवेश्मनि - रागादिपापस्थानविभावतन्निमित्तीभूतधनस्वजनादिगृहे, संसारे निवसन्-वसमानः, स्वार्थसज्ज:- स्वस्य आरोपात्मताकृतः अर्थ:- अहङ्कारममकारादिरूपः स्वार्थः, तत्र सज्जः - सावधानः, लिप्यते रागादिभावकर्माभिष्वङ्गतः समस्तात्मीयक्षयोपशमभावपरानुगतः सर्वसत्तावरकत्वेन भावकर्म-द्रव्यकर्म - नोकर्मले पैलिप्यते । तथा ज्ञानसिद्ध: - हेयोपादेयपरीक्षापरीक्षितसर्वभावः स्वात्मनि स्वत्वमन्यत्र सर्वत्र परत्वोपयुक्तः स्वात्मारामी स्वरूपविलासी न लिप्यते त्रिविधकर्मोपस्करैर्नावगुण्ठ्यते अतः आत्मधर्मावभासनतदुपादेयतया यतितव्यमित्युपदेशः ॥ १ ॥
१. अरिहन्तादिप्रशस्त V. 1. । २. अप्रशस्त V. 1. । ३. ऋजुस्तु S. M., B. 2. I ४. सर्ववीर्यस्य V.1. । ५. एवंभूतः V. 1.। ६. चक्रा S.M., B.2., V.2., L.D.1. । ७. पग्राह० B.2., V. 2., L.D. 2. । ८. क्षयोपशमा V. 1., B.1., A.D. । ९. स्वात्मम् V. 1., B. 1. विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org