________________
क्रियाष्टकम् (९)
अथ विषाद्यनुष्ठानादूषिता न तु सानुष्ठाना । सानुष्ठाना हि क्रिया भवहेतुरेव । तेन या क्रिया साधनहेतुः, सा (ताम्) एव आह
वचोऽनुष्ठानतोऽसङ्गा, क्रिया सङ्गतिमङ्गति । सेयं ज्ञानक्रियाभेद-भूमिरानन्दपिच्छला ॥८॥
॥ इति क्रियाष्टकम् ॥९॥ — वचोनुष्ठानत इति-वचनमर्हदाज्ञा, तदनुयायिनी क्रिया धर्महेतुः । यतःप्रशान्तचित्तेन 'गभीरभावेनैवाहता सा सफला क्रिया च । अङ्गारवृष्टेः सहसा न चेष्टा, नासङ्गदोषैकगुणप्रकर्षा ॥१॥
विष-गराऽन्योन्यानुष्ठानत्यागेन श्रीमद्वीतरागवाक्यानुसारतः उत्सर्गापवादसापेक्षरूपा क्रिया वचनानुष्ठानक्रियाकरणतः असङ्गक्रियासङ्गति संयोगितामङ्गति-प्राप्नोति । वचनक्रियावान् अनुक्रमेणासङ्गक्रियामेति निर्विकल्पनिष्प्रयासरूपां क्रियां प्राप्नोति । सा एव- असङ्गक्रिया एव ज्ञानक्रिया । एवमभेदभूमिः ज्ञेया । असङ्गक्रिया भावक्रिया शुद्धोपयोगै शुद्धवीर्योल्लासतादात्म्यतां दधाति । ज्ञानवीर्यैकत्वं ज्ञानक्रियाऽभेदः इत्यनेन यावद् गुणपूर्णता न, तावत् निरनुष्ठाना क्रिया करणीया । नहि तत्त्वज्ञाः क्रियानिषेधकाः, किन्तु क्रिया हि शुद्धरत्नत्रयीरूपवस्तुधर्मसाधने कारणम्, न धर्मः । धर्मत्वम् आत्मस्थमेव । उक्तं च श्रीहरिभद्रपूज्यैः दशवैकालिकवृत्तौ- "धर्मसाधनत्वाद् धर्म इति" । अतः द्रव्यक्रियां धर्मत्वेन गृह्णन्ति तत्कारणे कार्योपचार एव, नान्यः । एतच्छ्रद्धानविकलानां क्रिया न धर्महेतुः । [36] बहुगुणविज्जानिलओ, उस्सुत्तभासी तहावि मुत्तव्यो ।
जह वरमणीजुत्तो वि हु, विग्घकरो विसहरो लोए ॥१८॥ इति षष्टिशतकप्रकरणे, [गा०१८] । तथा च आचाराने "भय
१. गम्भी० V.1.2., B.1.2. । २. अभेद० V.1.2., B.1.2., S.M. | ३. योग० v.1..B.1.2.,A.D.,L.D.1.3, योग: V.2.। ४. क्रि यादि B.2.,V.1.,A.D.,S.M.,L.D.1.2.3 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org