________________
श्रीज्ञानमञ्जरी विचिकित्सायां न संयम" इति । अतः निमित्तहेतुत्वेन क्रिया निरनुष्ठाना करणीया । इयमसङ्गक्रिया, सा आनन्दपिच्छला स्वाभाविकानन्दामृतरसार्दा, अतः आत्मतत्त्वावबोधानन्दोत्सुकैनिरनुष्ठाना सत्प्रवृत्त्यसत्प्रवृत्तिपरित्यागरूपा क्रिया द्रव्यतो, भावतः स्याद्वादस्वगुणानुयायिवीर्यप्रवृद्धि-अभिनवगुणवृद्धिरूपा संयमस्थानारोहणी तत्त्वैकत्वरूपा क्रिया प्रतिसमयं करणीया, साध्यसापेक्षत्वेन, अत एव "ज्ञानक्रियाभ्यां मोक्ष" इति निर्धारणीयम् । द्रव्यक्रियोद्यतो भावक्रियावान् भवति। ततश्च स्वरूपास्पदीभवतीति श्रेयः ॥८॥
॥इति क्रियाष्टकम् ॥९॥
॥ अथ तृप्त्यष्टकम् ॥ क्रियावन्तो हि कदाचिन्मदलोभाविष्टाः सदभ्यासं निष्फलीकुर्वन्ति, तेन कषायत्यागरूपपूर्वकं स्वरूपभोगोत्पन्नतृप्तिरूपमष्टकं निरूप्यते । तत्र तृप्तिर्नामादिभेदाच्चतुर्धा-तत्र नामतृप्तिः जीवस्य अजीवस्य(वा) तृप्तिरिति नाम क्रियते, शब्दोच्चारणरूपा वा, स्थापनातृप्तिः अक्षरन्यासरूपा, द्रव्यतृप्तिः आगमतः तत्पदार्थज्ञोऽनुपयुक्तः नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र तद्व्यतिरिक्ता द्रव्येण आहारधनोपकरणा तृप्तिः, भावतृप्तिः आगमतः तत्पदार्थज्ञोपयुक्तस्य, नोआगमतः स्वरूपज्ञानानन्दपूर्णस्य सहजात्मानुभवाविच्छिन्नस्य भवति । नैगमे जीवाजीवात् तृप्तिः, संग्रहव्यवहाराभ्यां ग्रहणयोग्यद्रव्यप्राप्ती, ऋजुसूत्रेण ईप्सितसंपत्तौ, शब्दादिनयैस्तु स्वस्वरूपनिरावरणपूर्णाविघ्नभोक्तृत्वेन तृप्तिः । इयं च पद्धतिः [37]ओधनियुक्तिवृत्तिगताहिंसानयवद्भावनीया । [ओघ०नि०गा०७५५] अत्र कारणतो नामादिनिक्षेपत्रिकनैगमादिनयसत्का वस्तुतः भावनिक्षेपशब्दादिनयरूपा एव ग्राह्या, सा च साधनकालेऽपवादोद्भवा सिद्धत्वे तूत्सर्गोद्भवा ग्राह्या । तामेवाह
१. तत्त्वाव्याबाधा० S.M. विना । २. दोच्छकै: S.M. विना, दोच्चकैः L.D.11 ३. रोहण० A.D., B.1. V.1., L.D.1. । ४. द्रव्याप्राप्तौ B.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org