________________
श्रीज्ञानमञ्जरी सक्रिया उक्ताः । व्यवहारेण शरीरपर्याप्त्यनन्तरं क्रिया । ऋजुसूत्रनयेन कार्यसाधनार्थं योगप्रवृत्तिमुख्यवीर्यपरिणामरूपादिक्रिया । शब्दनयेन वीर्यपरिस्पन्दात्मिका । 'समभिरूढेन गुणसाधनारूपसकलकर्त्तव्यव्यापाररूपा । एवंभूतनयेन तत्त्वैकत्ववीर्यतीक्ष्णतासाहाय्यगुणपरिणमनरूपा । अत्र साधकस्य साधनक्रियाया अवसरः नाणचरणेण मुक्खो । तेन चरणगुणप्रवृत्तिस्वरूपग्रहणपरभावत्यागरूपा क्रिया मोक्षसाधका । अतो ज्ञाततत्त्वेन तत्त्वसाधनार्थं सम्यक्क्रिया करणीया । तदुपदेशःक्षायिकसम्यक्त्वं यावद् निरन्तरं निःशङ्काद्यष्टदर्शनाचारसेवना, केवलज्ञानं यावत् कालविनयादिज्ञानाचारता, निरन्तरं यथाख्यातचारित्रादर्वाक् चारित्राचारसेवना, परमशुक्लध्यानं यावत् तपआचारसेवना, सर्वसंवरं यावत् वीर्याचारसाधनाऽवश्यंभावा, न हि पञ्चाचारमन्तरेण मोक्षनिष्पत्तिः। दर्शनाद् हि स्वगुणानां प्रवृत्तिः क्रिया दर्शनादिगुणविशुद्ध्यर्थं " सन्निमित्तमवलम्ब्य प्रवर्तनम् आचारः" गुणपूर्णतानिष्पत्तेः अर्वाक् आचरणा करणीया । आचरणातो गुणनिष्पत्तिर्भवत्येव । पूर्णगुणानां तु आचरणा परोपकारायेति सिद्धम् । अत एव उच्यते:
ज्ञानी क्रियापरः शान्तो, भावितात्मा जितेन्द्रियः । स्वयं तीर्थों भवाम्भोधेः, परं तारयितुं क्षमः ॥१॥
ज्ञानी क्रियापर इति–ज्ञानी-यथार्थतत्त्वस्वरूपावबोधी, यदा क्रियासाधनकारणानुयायियोगप्रवृत्तिरूपा, स्वगुणानुयायिवीर्यप्रवृत्तिरूपा तस्यां तत्परः-उद्यतः, पुनः शान्तः-कषायतापरहितः, भावितात्मा-भावितःशुद्धस्वरूपरमणमयः आत्मा यस्य सः भावितात्मा, जितेन्द्रियःपराजितेन्द्रियव्यापारः, भवाम्भोधेः-भवसमुद्रात् स्वयं तीर्णः-पारंगतः, परम्- आश्रितम्, उपदेशदानादिना तारयितुं क्षमः-समर्थो भवति । यो हि सम्यग्दर्शनज्ञानचारित्रपरिणतः आत्मारामी आत्मविश्रामी आत्मानु१. रूपाक्रिया V.1.2., B.1.2., A.D., L.D.1.2.3 । २. समभिरूढनयेन L.D.1.3 । ३. वीर्याचारस्य L.D.1.3 । ४. तन्नि० L.D.1.3 । ५. परांस्ता० V.2., B.1.2.,S.M. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org