________________
क्रियाष्टकम् (९)
६३
चन्द्रस्वरूपं निर्मलं भवति । तथा ज्ञानावरणाद्यभ्ररहितस्य शुद्धात्मनः स्वरूपं निर्मलं भवति । अत एव बाधकपरिणतिहेतुतां संत्यज्य साधकत्वमवलम्ब्य साधकत्वेऽपि विकल्परूपार्वाचीनापवादसाधनां त्यजन्, उत्सर्गसाधनां गृह्णन्, पुन: (तामेव ) त्यजन् पूर्णगुणावस्थां श्रयन् एवमनुक्रमेण त्यागयोग्यं त्यजन् आत्मा सकलसंसर्गभावनिरावरणेन निर्मल-निष्कलङ्कासङ्ग - सर्वावरणरहितः सच्चिदानन्दरूपः आत्मात्य - न्तिकैकान्तिक- निर्द्वन्द्व-निष्प्रयास - निरुपचरितसुखपूर्णो भवति । अतः सम्यग्ज्ञानबलेन हेयोपादेयविवेचनं कृत्वा समस्तहेयभावत्यागवत्तया भवितव्यम् । त्यागो हि निर्जरामूलम् । परभावग्रहणमेवात्माहितम् । अतस्त्यागः करणीय एव आत्मस्वरूपाभिलाषुकैः ॥८॥
॥ इति व्याख्यातं त्यागाष्टकम् ॥८॥ ॥ अथ क्रियाष्टकम् ॥९॥
परभावत्यागकरणमेव साधका क्रिया, अतः क्रियाष्टकं निरूप्यते । क्रियते आत्मकर्तृत्वेन सा क्रिया, कर्तुः द्रव्यस्य प्रवृत्तिः । स्वरूपाभिमुखदर्शनज्ञानोपयोगता ज्ञानम्, स्वरूपाभिमुखवीर्यप्रवृत्तिः क्रिया, एवं "ज्ञानक्रियाभ्यां मोक्षः, " तत्र ज्ञानं स्वपरावभासनरूपम्, क्रियास्वरूपरमणरूपा । तत्र चारित्रवीर्यगुणैकत्वपरिणतिः क्रिया, सा साधका । अत्र अनादिसंसारे अशुद्धकायिक्यादिक्रियाव्यापारनिष्पन्नः संसारः । स एव विशुद्धसमितिगुप्त्यादिविनयवैयावृत्त्यादिसत्क्रियाकरणेन निवर्तते । अतः संसारक्षपणाय क्रिया संवरनिर्जरात्मिका करणीया । नामस्थापना सुगमा । द्रव्यक्रिया शुद्धा अशुद्धा च । तत्र शुद्धा स्वरूपानुयायियोगप्रवृत्तिरूपा । अशुद्धा कायिक्यादिव्यापाररूपा । भावक्रियावीर्यप्रवृत्तिरूपा । पुद्गलानुयायि - औदारिकादिकायव्यापारसन्मुखा अशुद्धा । शुद्धा पुनः स्वगुणस्वपरिणमनत्वनिमित्तवीर्यव्यापाररूपा क्रिया भावक्रिया । तत्र क्रियासङ्कल्पः नैगमेन । सङ्ग्रहेण सर्वे संसारजीवा:
१. व्यापारपररूपा V. 1. विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org