________________
६२
श्रीज्ञानमञ्जरी
क्रियाभाव: गुणानुयायिवीर्यपरिणमनरूपा अभ्यन्तरा क्रियाऽस्ति, तथापि ग्रहणत्यागरूपक्रियाऽभावेन क्रिया नेत्युक्तम् ||६||
योगानप्यखिलांस्त्यजेत् ।
योगसंन्यासतस्त्यागी,
इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते ॥७॥
योगसंन्यासत इति - त्यागी - बाह्याभ्यन्तरसमस्तपरभावत्यागी, योगसंन्यासत:- योगरोधनतः, आवर्जीकरणात् ऊर्ध्वमखिलान्- समस्तान् योगान्-वीर्यपरिस्पन्दरूपान् त्यजेत् अयोगी भवति । इति समस्तयोगरोधेन परोक्तं- परै:- उत्कृष्टैः सर्वज्ञैः उक्तं - निवेदितम् । निर्गुणं - योगादिरहितं सत्त्वरजस्तमोरूपगुणरहितम्, ब्रह्म-आत्मस्वरूपम् उपपद्यते - शुद्धचिन्मयं निष्पद्यते ॥७॥ योगरोधस्वरूपं च वस्तुत इति सांसर्गिक गुणरहितः इति कथनेन आत्मा सदैव निर्गुणः इति निवारयन्नाह
वस्तुतस्तु गुणैः पूर्णमनन्तैर्भासते स्वतः ।
रूपं त्यक्तात्मनः साधोर्निरभ्रस्य विधोरिव ॥८॥ ॥ इति त्यागाष्टकम् ॥ ८ ॥
वस्तुत इति - वस्तुत:-पदार्थमूलस्वरूपेण, शुद्धः आत्मा स्वतःस्वस्वभावेन अनन्तैः गुणैः पूर्णः भासते सम्यग्ज्ञानदर्शनचारित्रतपोरूपेण साधनपरिणमनेन अनादिसङ्गीभावपरित्यागेन स्वरूपभासनरमणानुभवनेन अभिनवकर्माऽग्रहणस्वरूपैकत्वतन्मयध्यानतः पूर्वकर्मक्षरणेन अयमात्मा शुद्धः सकलपुद्गलोपाधिरहितो यदा भवति, तदा ज्ञानदर्शनचारित्रवीर्यागुरुलघु-अव्याबाधासङ्गामूर्त्तपरमदानलाभभोगोपभोगाक्रियसिद्धत्वाद्यनन्तैः स्वासङ् ख्येयप्रदेशव्याप्यव्यापकैः गुणैः पूर्णः भासते - राजते इत्यर्थः । किमिव ? त्यक्तात्मनः - त्यक्तं परभावे आत्मत्वं येन सः त्यक्तात्मा तस्य त्यक्तात्मनः, साधोः - मोक्षपदसाधकस्य रूपं निरभ्रस्य - मेघपटलरहितस्य, विधो:- चन्द्रस्य इव रूपं भासते । यथा अभ्रहीन
१. मा आत्मा A.D. V.1., B.1. । २. कमिव S. M. B.1.V.2 I ३. एष पाठो नास्ति S.M. B.1. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org