________________
इन्द्रियजयाष्टकम् (७) "केवलनाणमणंतं, जावरूवं तवं निरावरणं" (लोगालोगपगासगमेगविहं निच्चजोइ ति॥१॥)
[वि०वि०-१८।१] सिद्धत्वेन अविनश्वरत्वात् निगोदावस्थां यावत् ज्ञानमत्यन्तावबोधमहामोहोदयेऽपि सत्तागतं सम्यग्दृष्टिदेशविरतिसर्वविरतानां साध्यभूतं निर्विकल्पसमाधिः शुक्लध्यानस्य फलरूपमर्हत्सिद्धानां परमं स्वरूपं केवलज्ञानं धनं स्वीयं सहजं विस्मृत्यौपाधिकारोपितमृदूपलरूपे धने मुह्यन्ति मूढाः ॥५॥
पुरःपुरःस्फुरत्तृष्णा-मृगतृष्णानुकारिषु । इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानाऽमृतं जडाः ॥६॥
पुरःपुर इति-जडा:-मूर्खाः स्याद्वादवस्तुस्वरूपोपलम्भरहिताः ज्ञानामृतं-ज्ञानं-बोधः तदेव अमृतमविनाशिपदहेतुत्वात्, 'त्यत् त्यक्त्वा इन्द्रियार्थेषु-रूपरसगन्धस्पर्शशब्दलक्षणेषु धावन्ति-भोगाभिलाषिणः आतुरा भवन्ति । तदर्थं यत्नः, तदर्थं दम्भविकल्पकल्पना, तदर्थं कृष्यादिकर्म करोति । कथंभूतेषु इन्द्रियार्थेषु ? पुरःपुरःस्फुरत्तृष्णामृगतृष्णानुकारिषु-अग्रे स्फुरन्ती या तृष्णा-भोगपिपासा तया, मृगतृष्णाजलभ्रान्तिः तदनुकारिषु-तत्सदृशेषु, यथा-मृगतृष्णाजलं न पिपासापहं भ्रान्तिरेव एवमिन्द्रियभोगाः न सुखं सुखभ्रान्तिरेव तत्त्वविकलानाम् ॥६।।
*पतङ्गभृङ्गमीनेभ-सारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद्, दुष्टैस्तैः किं न पञ्चभिः ? ॥७॥
पतङ्गभृङ्गमीनेति-रूपासक्तः पतङ्गः, रसासक्तः मीनः, गन्धासक्तः भृङ्गः-भ्रमरः, स्पर्शासक्तः इभ:-गजः, शब्दासक्तः-सारङ्गःमृगः एते एकैकेन्द्रियदोषात् दुर्दशां-दुष्टां दीनां दशामवस्थां यान्ति, तदा तैः पञ्चभिः दुष्टैः किं न इति ?-किं दुःखं न भवति ? भवत्येव । अत १. तं A.D.,V.2.,B.1. त्यं B.2 । ★ पतङ्गमीनेभभृङ्ग० A.D., टीकाकारेणात्र टीकायामेतत्क्रमो गृहीतः, किन्तु अत्र मूलग्रन्थकारोक्तः श्लोकः गृहीतः । २. पतङ्गमीनेति सर्वप्रतिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org