SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीज्ञानमञ्जरी एव महाचक्रधरा वासुदेवाः मण्डलिकादयः कण्डरीकादयश्च विषयव्यामोहितचेतना नरके दीनावस्थां प्राप्ताः । किं बहुना ? मा कुरुध्वं विषयविषसङ्गमम् ॥७॥ विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः । इन्द्रियैर्न जितो योऽसौ, धीराणां धुरि गण्यते ॥८॥ ॥ इति इन्द्रियजयाष्टकम् ॥ ७ ॥ विवेकेति-विवेकः-स्वपरविवेचनम्, [स एव द्विपः-गजः] तद्बाते हर्यक्षतुल्यैः-सिंहोपमैः, समाधिः-स्वरूपानुभवलीलाविश्रान्तिः, [स] एव धनं-सर्वस्वम्, तद्हरणे तस्करास्तैः, एवमिन्द्रियैः यः असौ पुरुषः नेमि-गजसुकुमालादिसदृशैः न जित:-इन्द्रियाधीनो न जितः, सः पुरुषः धीराणां धुरि-आदौ गण्यते-श्लाघ्यते । उक्तं च: धन्यास्ते ये विरक्ता गुरुवचनरतास्त्यक्तसंसारभोगाः, योगाभ्यासे विलीना गिरिवनगहने यौवनं ये नयन्ति । तेभ्यो धन्या विशिष्टाः प्रबलवरवधूसङ्गपञ्चाग्नियुक्ताः नैवाक्षौघे प्रमत्ताः परमनिजरसं तत्त्वभावं श्रयन्ति ॥१॥ अहह पूर्वभवास्वादितसाम्यसुखस्मरणेन प्रणयन्ति अनुत्तरविमानसुखलवसत्तमाः इन्द्रादयो हि विषयस्वादत्यागासमर्थाः लुठन्ति भूपीठे मुनीनां चरणकमलेषु । अतः अनाद्यनेकशः भुक्तविषयाः वारणीयाः । तत्सङ्गोऽपि न विधेयः। न स्मरणीयः पूर्वपरिचयः। प्रतिसमयं दुर्गञ्छनीया एव एते संसारबीजभूताः इन्द्रियविषयाः । अत एव निर्ग्रन्था निवर्त्तयन्ति कालं वाचनादिना तत्त्वावलोकनेहादिषु । उक्तं च-"निम्मलनिक्कलनिस्संगसिद्धसब्भावफासणा कइया" इत्यादि । रुच्या रत्नत्रयीपरिणताः तिष्ठन्ति स्थविरकल्पजिनकल्पेषु, सर्वैरपि भव्यैरेतदेव विधेयम् ॥८॥ ॥ इति व्याख्यातमिन्द्रियजयाष्टकं संपूर्णम् ॥ ७ ॥ १. गुण्यते B.1.2., S.M., V.1. । २. नैवासक्ता: V.2 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy