SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ त्रिपुराभारतीलघुस्तवस्य पञ्जिकानामविवृतिः केवलाक्षरशुद्ध्यर्थमर्थमात्रप्रतीतये । लघुस्तवे महावृत्तिरुद्धृता ज्ञानतो मया । अथ लघुस्तवस्य विवृत्तिरभिव्यज्यते ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ॥ एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता छिन्द्यान्नः सहसा पदैस्त्रिभिरधं ज्योतिर्मयी वाङ्मयी ॥१॥ Jain Education International 1 अक्षरार्थकथनम् - एषाऽसौ त्रिपुरा त्रिभिः पदैः = वाक्यैर्वक्ष्यमाणैः ऍंकारप्रभृतिभिः, अथवा पदैः = स्थानैः ललाट-1 ट- शिरो- हृदयरूपैः, सहसा = झटिति स्वबलेन वा, वो युष्माकम्, अघं पापं दारिद्र्यं वा मरणं वा छिन्द्यात् । असौ परा त्रिपुरा । इदानीं स्थानत्रितये ध्यानत्रयमाह । किं कुर्वती ? मध्येललाटं = ललाटस्य मध्ये, पारे मध्येऽन्तः षष्ठ्या वेत्यव्ययीभावः, भ्रूमध्ये, ऐन्द्रस्येव = इन्द्रसम्बन्धिनः शरासनस्य प्रभामिव जगद्वश्यार्थमारक्तरूपं दधती । तथा शिरसि = ब्रह्मप्रदेशे, अनुष्णगोः शीतांशोः सर्वतः प्रसारिणीं शौक्लीँ श्वेतरूपां कान्तिम् ज्योत्स्नामिव प्रतिभोल्लासार्थं आतन्वती विस्तारयन्ती । अनुष्णगौरिवेति पाठे गौरतद्धिताभिधे य इति गणकृतस्यानित्यत्वाददन्तता नास्ति । यथा अनुष्णगुश्चन्द्रः शुक्लां चन्द्रिकां क्षिपति, तथा हृदयकमले उष्णांशोर्भगवतो वेः सदाऽहः स्थिता सप्रतापा, यद्वा सदाऽहनि स्थिता लक्ष्मीप्राप्त्यर्थं द्युतिरिव । अतश्चेन्द्रचाप-शीतांशु - सूर्याकारधारणात्, ज्योतिर्मयी सारस्वतरूपा च इत्यनेन = = For Private & Personal Use Only = www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy