________________
पञ्जिकानामविवृतिः
कामराजबीजं वाङ्मयबीजं चोपन्यस्तम् ।
इदानीं सामान्यविशेषाभ्यां त्रिपुराया मन्त्रोद्धारः प्रतिपाद्यते । वक्ष्यति च बोद्धव्या निपुणं बुधैरित्यादि । तत्र एक - द्वि- त्रिपदक्रमेण प्रथमे पादे प्रथमाक्षर ऍंकारः, द्वितीये पादे द्वितीयाक्षरः क्लीँकारः, तृतीये पादे तृतीयाक्षर: सौंकारः । सदा हस्थिता नित्यं हकारे स्थिता ह- सहिता तेन ह्सौं इति सिद्धम् । अत्र देव्या मन्त्रद्वयमूर्तित्वाद् हृदि विशेषणत्वे बीजाक्षरविशेषणम् । एवं ऐँ क्लीँ सोँ इति सामान्येन तावदुक्तम् । वक्ष्यति च विशेषसहितः सत्सम्प्रदायान्वित इति । तेन विशेषो बोद्धव्यः । मन्त्रोद्धारपक्षे सर्वतः सरु इति भिन्नं पदं क्रियाविशेषणम् । सरु यथा भवति एवं क्लीँ कारो ज्ञेयः । सह रुणा वर्तत इति । उकारस्योच्चारणत्वेन सम्बन्धो ह्यस्तनं भागं लक्षयति । तेन अधोभागे रेफः सिद्धः । तेन क्लीँ इति । अतः शिरो ध्यानादनन्तरमित्यर्थः । त्रिभिः पदैः वाक्यैः ऍंकारप्रभृतिभिः । सहसा = हश्च सश्च ह्सौ सह ताभ्यां वर्तते सहसा तेन हसै हस्क्लीँ हस्ह्सौं इति विशेषसहितः ।
-
=
अथ किमेषा त्रिपुरा उत त्रिपुरभैरवी ? । यथोत्तरषट्के त्रिपुरामुद्दिश्य उदाहृतम् तद्यथा
अथातः सम्प्रवक्ष्यामि सम्प्रदायसमन्वितम् । त्रैलोक्यडामरं तन्त्रं त्रिपुरावाचकं महत् ॥
पुनस्तत्रैव
पूर्वोक्तं मन्त्रमालिख्य त्रिपुरावाचकं महत् । अथातः सम्प्रवक्ष्यामि त्रिपुरायोगमुत्तमम् ॥
Jain Education International
५७
त्रिपुरा त्रिपुरेति श्रूयते । पञ्चरात्रे तु तत्त्वसंहितायां तैरेव - बीजाक्षरैस्त्रिपुरभैरवीयं भणित्वा कथिता । यथा
वाङ्मयं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं बीजस तु तद्धि सारस्वतं वपुः ॥ एषा देवी मया ख्याता नित्या त्रिपुरभैरवी ॥ अतः संदेहः । अथ उत्तरषट्केऽपि -
For Private & Personal Use Only
www.jainelibrary.org