________________
ज्ञानदीपिकावृत्तिः जातो नवाङ्गीविवृते विधातुरनुक्रमेणाभयदेवसूरिः ।। युगप्रधानो गुणशेखराह्वः सूरीश्वरः सम्प्रति तस्य पट्टे ॥१॥ श्रीसङ्घतिलकसूरिस्तच्चरणाम्भोजसेवनमरालः । श्रीसोमतिलकसूरिर्लघुस्तवे व्यधित वृत्तिमिमाम् ॥२॥ श्रीकाम्बोजकुलोत्तंसः स्थूणुर्नाम्नास्ति ठक्कुरः । यस्याभ्यर्थनया चक्रे टीकेयं ज्ञानदीपिका ॥३॥ मुनिनन्दगुणक्षोणि (१३९७) मिते विक्रमवत्सरे । कृता घृतघटीपुर्यां साचन्द्रार्क प्रवर्त्तताम् ॥४॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । अनुष्टुभाञ्चतुःसप्तत्यग्रा जाता चतुश्शती ॥५॥
इति श्रीसोमतिलकसूरिविरिचिता श्रीलघुस्तवराजज्ञानदीपिकानामव्याख्या समाप्ता ॥
भाषा–यह श्रीलध्वाचार्य का बनाया हुआ श्रीत्रिपुराभारतीस्तव समाप्त हुआ । अथ भाषाटीकाकारश्लोकः
"कायस्थान्वयकैरवेन्दुसदृशां श्रीलेन्द्रमल्वर्मणां श्रीमद्हाकिमसहिबेतिपदवीमासेदुषामाज्ञया ॥ भाषाकारि लघुस्तवे सविवृतौ नागौरशाखापुरे शाके लक्ष्मणसूरिणा रदधृतौ १८३२ चण्डी तया प्रीयताम् ॥१॥
इति श्रीमरुदेशान्तर्गत-योधपुरपत्तनप्रान्तस्थनागौरनगरवास्तव्यप्रधानानाथोपकारकसंस्कृतपाठशालाध्यापक-श्रीमज्जगज्जीवनवंश्य-चातुर्धात्रीय-निरञ्जनिस्वामिश्रीमधुसूदनाचार्यशिष्य-पण्डितलक्ष्मणदासशर्म-निर्मिता श्रीलघुस्तवराजस्य सान्वयभाषाटीका सम्पूर्णा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org