________________
२१
स्तुत्युपसंहारे कविर्निजगर्वापहारमाह—सावधमिति । सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात्त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥२१॥
व्याख्या-ननु लघुकविकृतत्वादवज्ञास्पदत्वेन स्तोत्रमिदं कः पठिष्यतीति चित्ते विताह-सावद्यमिति । इदं स्तोत्रं सावधं सदोषमस्तु यदि वा निरवद्यं = निर्दोषमस्तु, अनया चिन्तया किं वा = कोऽत्र परमार्थ इति । नूनं = निश्चितं स जनः इदं स्तोत्रं पठिष्यति = यस्य जनस्य त्वयि भक्तिरस्ति = न तु पाठकाभावः । ननु एतादृग्वैमनस्यञ्चेत्किमर्थं स्तुतिः कृतेति चेत्तत्राह-दृढमत्यर्थमात्मनि संजायमानं = घटमानं लघुत्वं = बालकत्वं संचिन्त्यापि = ज्ञात्वापि यस्मात्कारणात् हठात् = बलेन त्वद्भक्त्या मुखरीकृतेन = त्वद्भक्तिरसवाचालेन मयापि ध्रुवं = निश्चितं स्तोत्रमिदं रचितं कृतम्, न खलु मम भगवतीस्तुतिकरणे शक्तिसमुल्लासः किन्तु व्यक्तकोटिसंटङ्कितभक्तिसमुद्भूतपरमानन्दरसपरवशेन यथाभावनं मया देवी स्तुत्वा बालस्वभावसुलभं मुखरत्वमेवाविष्कृतम् । किञ्चान्यद् बालको हि मातुरुत्सङ्गचारी स्वेच्छया लपन्नपि न दूषणीयः प्रत्युत भूषणीयो भवति, तथाहमज्ञानिशिरोमणिरपि जगन्मातरं निजसहजलीलया स्तुवन् सदोषोऽपि नापराधभाजनम्, किन्तु दूषणमुद्धृत्यातुल्यवात्सल्यसुधाप्रवाहैः प्रीणयित्वा च प्रमाणपदवीमध्यारोपणीयः सकलकल्याणमय्या भवत्येवेति भावार्थसंकलितैकविंशवृत्तार्थः ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org