________________
उक्ततत्त्वालिङ्गनापुरस्सरं निजस्तुतेः सज्जनश्लाघ्यतामाह-बोद्धव्येति ।
बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पादसङ्ख्याक्षरैमन्त्रोद्धारविधिर्विशेषसहितः सत्सम्प्रदायान्वितः ॥२०॥
व्याख्या-बुधैः = पण्डितैः इयम् = एकोनविंशतिश्लोकमयी स्तुतिः = नुतिः तद्गतं मनः कृत्वा = प्रणिधानेन भगवतीमयं चित्तं विधाय निपुणं = यथा भवति तथा बोद्धव्या = सामान्यविशेषोक्तप्रकारेण साधुभङ्ग्या ज्ञातव्या । यतो बहुधा त्रिपुराया उद्धाराः सन्ति । तथा च
यथावस्थितमेवाद्यं द्वितीयं सहकारकम् ।
तृतीयं हंसमारूढं त्रिपुराबीजमुत्तमम् ॥१॥
तेन एँ स्क्लीं ह्स्ह्सौं इति सिद्धम् । अन्यच्च पिण्डीभूता त्रिपुरा १, कामत्रिपुरा, २. त्रिपुरभैरवी, ३. वाक्त्रिपुरा, ४. महालक्ष्मी, ५. वह्नित्रिपुरा, ६. मोहिनी, ७. भ्रमरावली, ८. बाला, ९. नन्दा, १०. त्रैलोक्यस्वामिनी, ११. हंसिनी, १२. इति विशेषाम्नायम् अक्षरपूजायां लिखेत् । प्राधान्यं जपाभ्यासस्य न तूच्चारणस्येत्यादि सर्वं निपुणं बोद्धव्यम् । कस्याः स्तुतिरित्याह-त्रिपुरेति । भारत्याः = त्रिपुरानाम्न्याः सरस्वत्याः । कथम्भूतायाः ? अनन्यमनसः = असामान्यचेतस्काया महामायायाः, यत्र = यस्यां स्तुतौ स्फुटं = प्रकटम् आद्यवृत्ते प्रथमश्लोके एकद्वित्रिपदक्रमेण = त्रिभिः पदैः तत्पादसंख्याक्षरैः = वर्णत्रयेण वाग्बीजकामबीजशक्तिबीजरूपेण मन्त्रोद्धारविधिः कथितः । किम्भूतः ? विशेषसहितः । विशेषाश्च सहसेतिपदेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org