________________
४९
ज्ञानदीपिकावृत्तिः प्रथमवृत्त एव प्रकाशितत्वान्न पुनरुच्यन्ते । पुनविशिनष्टि सत्सम्प्रदायान्वितः = सम्प्रदायो गुरुपारम्पर्य यथा त्रिपुराशब्देन चराचरत्रिजगदुत्पत्तिक्षेत्रं त्रिरेखामयी योनिरित्यभिधीयते, अत एवासौ त्रिपुरा-इत्यादौ प्रोक्तम् । ऐकारस्य तदाकारत्वादेव ।
यदि वा प्रकारान्तरैरष्टदलं पद्ममालिख्य कर्णिकायां देव्या मूर्ति बीजं वा पत्रेषु च लोकपालाष्टकं नागकुलाष्टकं सिद्धयोऽष्टौ, विद्या अष्टौ, सिद्ध्यष्टकं, क्षेत्रपालाष्टकं, यमाष्टकं धर्माष्टकमित्यादि विलिख्य 'द्राँ द्रीं क्लीं ब्लूं सः' 'इति शोषणमोहनसंदीपनतापनोन्मादनपञ्चवर्णपुष्पैः योनिमुद्गरधेनुपाशांकुशादिमुद्रा दशं पूजयेत् । ततो जापस्तत्प्रमाणानुगामि च फलमिदम् । यथा
लक्षजापे महाविद्यावर्णमालाविभूषितः । जाप्यं करोति भूपालः साधकस्य च दासवत् ॥१॥ लक्षद्वयमहाविद्याजप्यमानो महेश्वरः । रक्तध्यानान्महामन्त्रः क्षोभयेच्चक्रवर्तिनम् ॥२॥ लक्षत्रयेण देवेशो यक्षिणीनां पतिर्भवेत् । योगयुक्तो महामन्त्री नात्र कार्या विचारणा ॥३॥ चतुर्लक्षैः सदा जप्तैः पातालं साधकोत्तमः । क्षोभयेन्नात्र सन्देहः प्रोच्यते योगिनीमते ॥४॥ पञ्चलक्षैः सदा जप्तैर्निर्गच्छन्ति सुराङ्गनाः । पातालं स्फोटयन्त्याशु साधकस्य वशानुगाः ॥५॥ षड्भिर्लक्षैर्महादेवं चिन्तितं सिद्धयते नृणाम् । तथा जप्तैः सप्तलक्षैनरो विद्याधरो भवेत् ॥६॥ अष्टलक्षैस्तथा जप्तैः फलं देवी प्रयच्छति । तेन भक्षितमात्रेण कल्पस्थायी भवेन्नरः ॥७॥ नवलक्षैस्तथा जप्तैर्विद्याधरपतिर्भवेत् । दशलक्षैः कृतैर्जापैर्वज्रकायो भवेन्नरः ॥८॥
१. 'हाँ ह्रीं क्लीं ब्लूं सः' इति पाठान्तरम् । २. "क्षोभयेधुवतीजनम्" इति कुत्रचित्पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org