________________
निश्शेषतया त्रिपुरानामोत्पत्तिसङ्ख्यामाह-आईपल्लवितैरिति । आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपनि विंशतिसहस्त्रेभ्यः परेभ्यो नमः ॥१९॥
व्याख्या-हे त्रिपुरे भगवति ! आईपल्लवितैः = आकारेकारसंयुक्तनामान्तैः परस्परयुतैः = अन्योन्यमिलितैः द्वित्रिक्रमाद्यक्षरैः = द्विव्यादिवर्णवद्भिर्नामभिः । कैरित्याह-काद्यैः क्षान्तगतैः स्वरादिभिः = कवर्णमादौ कृत्वा क्षकारं यावत् पञ्चत्रिंशद्वर्णैः षोडशभिः स्वरैः सह प्रत्येकं गण्यमानानि यानि नामानि भवन्ति । यथा अकाई, अखाई, अगाई, अघाई, अङाई, अक्षाई, इति यावत् । एवम् आकाई, आखाई, आगाई, आघाई, आङाई इति यावत् आक्षाई इत्यादि । अक्षाई अ:खाईपर्यन्तानि षष्ट्यधिकानि पञ्चशतानि अङ्कतोऽपि ५६० । अथानन्तरं क्षान्तैः = क्षकारपर्यन्तैः तैश्च = ककाराद्यैश्च आईपल्लवितैः परस्परयुतैर्यानि नामानि भवन्ति यथा ककाई, कखाई, कगाई, कघाई, कडाई, कक्षाईपर्यन्तम् । एवं खकाई, खखाई, खगाई, खघाई, खङाई, खक्षाईपर्यंतम् । एवं क्षकाई, क्षखाई, क्षगाई, क्षघाई, क्षङाई, क्षक्षाईपर्यन्तं पञ्चत्रिंशद्वर्णैः पञ्चत्रिंशता गुणितर्जातानि द्वादशशतानि पञ्चविंशत्यधिकानि १२२५ इति । अन्यच्च तैरपि किंविशिष्टैः सस्वरैः = षोडश-स्वरसहितैः पाश्चात्त्यनामानि कथ्यमानानि भगवतीनामसु गण्यन्त इत्यर्थः । यथा-अककाई, अकखाई, अकगाई, अकघाई अकडाई, अकक्षाई, इति यावत् । एवम् आककाई, आकखाई, आकगाई, आकघाई, आकडाई आकक्षई, इति यावत् । एवं षोडशापि स्वराः पुनः खकाराद्यैः सह यथा अख़काई, अखखाई । एवम्-आखकाई, आखखाई, आखगाई, अगकाई, अगखाई। किंबहुना ? यावत् अक्षकाई, अक्षखाई, आक्षकाई, आक्षकाई आक्षक्षाई, पर्यन्तान्येकोनविंशतिसहस्राणि षट्शताग्रानि भवन्ति । यतो द्वादशशतानि पञ्चविंशत्यधिकानि षोडशस्वरैर्गुणितानि अङ्कतो १९६०० भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org