________________
१६
त्रिपुरेतिनामप्रत्ययेन सर्वत्रयात्मकवस्तूनां भगवत्या सह साम्यमाह-देवानामिति ।
देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरास्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥१६॥
व्याख्या-देवानां = ब्रह्मविष्णुमहेश्वराणां त्रितयी त्रिसंख्यात्मकता । यदि वा देवशब्देन गुरवस्तेषां त्रितयं गुरु-परमगुरु-परमेष्ठिगुरुरूपम्, तथा हुतभुजां = वैश्वानराणां त्रयी = गार्हपत्य-दक्षिणात्याहवनीयाख्यास्त्रयोऽग्नयः, त्रीणि ज्योतींषि । वा हृदयललाटशिरःस्थितानि, शक्तित्रयम् = इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिरूपम् । यद्वा-ब्राह्मीमाहेश्वरीवैष्णवीति शक्तित्रयम् । त्रिस्वराः = उदात्तानुदात्तस्वरिताख्याः । यद्वा-अकारेकारबिन्दुरूपास्त्रयः स्वराः । यद्यपि व्याकरणे चतुर्दशस्वरास्तथाप्यागमे षोडशस्वरत्वम् । यथोत्तरषट्के-षोडशारं महापद्ममित्युक्त्वा प्रथमे स्वरसङ्घातमित्युक्तेस्त्रय एव स्वराः । त्रैलोक्यं = स्वर्गमर्त्यपातालरूपम् । यदि वा मूलाधारस्वाधिष्ठानमणिपूरकमित्येको लोकः, अनाहतनिरोधविशुद्धिरिति द्वितीयः, आज्ञाशीर्षब्रह्मस्थानमिति तृतीय इति त्रैलोक्यं ज्ञेयम् । त्रिपदी = जालन्धरकामरूपोड्डीयानपीठरूपा, यदि वा-गगनानन्दपरमानन्दकमलानन्दा इति नाथत्रयम् । त्रिपदी गायत्री वा । त्रिपुष्करं = शिरोहृदयनाभिकमलरूपम्, तीर्थत्रयं वा । त्रिब्रह्म = इडापिङ्गलासुषुम्णारूपम् । यदि वा अतीतानागतवर्तमानज्ञानप्रकाशकं हव्योम-ब्रह्मरन्ध्रान्तं ब्रह्मत्रिकम् । वर्णास्त्रयः-ब्राह्मणादयः । वाग्भवं कामराजं शक्तिबीजञ्चेति मूलमन्त्रः एव वर्णत्रयं वा, तन्मयत्वाद्वाङ्मयस्य । उपसंहारमाह-यत् किञ्चित् = जगति संसारे त्रिवर्गादिकं = धर्मार्थकामरूपादिकं यत् किञ्चिल्लोके वर्तमानं चराचरवृत्तानावृत्तस्थूलसूक्ष्मलघुगुरुकठिनकोमलनीचोच्चत्र्यस्रचतुस्राद्यनेकभेदविविधं वस्तु त्रिधा = त्रिभिः प्रकारैः नियमितं = निबद्धम्, हे भगवति देवि !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org