SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अथ भगवत्या एव सर्ववाङ्मयत्वं सर्वदैवतमयत्वञ्चाह-शब्दानामिति । शब्दानां जननि त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥१५॥ व्याख्या हे भगवति त्रिपुरे ! अत्र भुवने चतुर्दशात्मके शब्दानां = रूढयौगिकादिभेदभिन्नानां नाम्नां जननी = उत्पादयित्री त्वमसि अतस्त्वं वाग्वादिनी इति = वाचो वाणीर्वदतीत्येवंशीलेति उच्यसे = कथ्यसे । एतावता सर्वशास्त्राणि त्रिपुरातः प्रादुर्भूतानि ज्ञेयानि न तु यथा बौद्धानाम् । तस्मिन्ध्यानसमापन्ने चिन्तारत्नवदास्थिते । निस्सरन्तियथाकामं कुड्यादिभ्योऽपि देशनाः ॥१॥ इत्यादि अतो वेद-सिद्धान्तव्याकरणालङ्कार-काव्यादि-शास्त्राणि भगवतीरूपाण्येवेति । अन्यच्च ध्रुवं = निश्चितं केशववासवप्रभृतयोऽपि = हरिहरब्रह्मप्रमुखाः इन्द्रयमवरुण-कुबेराग्निनैर्ऋतवाय्वीशानप्रमुखाश्चापि देवास्त्वत्तः = प्रादुर्भवन्ति, भगवत्याः सकाशादेवामी देवा उत्पद्यन्त इत्यर्थः, सृष्टिवृष्टिपालनज्वालनज्ञानदानबीजाधानादितत्तद्विधेय-कार्याणां भगवत्या एवोत्पादकत्वात्, तेऽपि तन्मया एवेति । तथा कल्पविरमे = क्षयकाले तेऽमी ब्रह्मादयोऽपि जगदुत्पत्तिस्थितिनाशक्षमा अपि यत्र भगवत्यां लीयन्ते। युगान्ते हि सर्वद्रव्याधारप्रलयलीलायाः त्वय्येवावस्थानात्, सर्वेऽपि देवा महामायास्वरूपां त्वामेवानुप्रव १. विरतौ इति (जि०) पाठ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy