SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १४ पूजाफलमुक्त्वा होमफलमाह-विप्रा इति । विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वैक्षवै-, स्त्वां देवि ! त्रिपुरे ! परापरकलां सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां येषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विरविघ्नीकृताः ॥१४॥ व्याख्या हे देवि हे त्रिपुरे ! विप्राः = ब्राह्मणाः, क्षोणिभुजः = क्षप्रात्रियाः विशः = वैश्याः, तदितरे = शूद्राः, अमी चातुर्वर्ण्यलोकाः परापरकलां = प्राचीनार्वाचीनावस्थामयीं, त्वां भगवती पूजाविधौ = पूजावसरे, क्षीराज्यमध्वैक्षवैः = घृत-माक्षिके क्षुरसैः, सन्तर्प्य = प्रीणयित्वा, त एव ब्राह्मणक्षत्रियादयः तरसा = बलेन विघ्नैरविजीकृताः = उपद्रवैरबाधिताः सन्तः, तां तां मनीषितां वश्याकृष्टिराज्यादिकां सिद्धि = लब्धि, ध्रुवं = निश्चयेन, अवाप्नुवन्ति = लभन्ते, यां यां सिद्धि स्थिरधियां = तदेकाग्रचित्तानां, तेषां = ध्यातॄणां, मनः = चित्तं, प्रार्थयते = अभिलषति, तामेव सिद्धि लभन्त इत्यन्वयः। अयं भाव:-ये किल षट्कोणे चतुष्कोणे वा वृत्तेऽर्द्धचन्द्राकारेऽन्याकारे वा हस्तो— कुण्डे शोधनं क्षालनं पावनं शोषणञ्च कृत्वा परितो हरशक्रादीन् देवान् न्यस्य मध्ये कुशाम्भसाभ्युक्ष्य पुष्पगन्धाद्यैः संपूज्य तत्र परदेवतां ध्यात्वा सूर्यकान्तादरणि-काष्ठाच्छोत्रियागाराद्वा वह्निमाहृत्य हैमे शौल्वे मृन्मये वा पात्रे निधाय वह्नि प्रतिष्ठामन्त्रेण न्यस्य हृदयमन्त्रेण घृताहुतीर्दत्त्वा कार्यानुसारेण रक्तातिरक्ताकनकहिरण्याद्याः सप्तजिह्वाः परिकल्प्य संप्रोक्षणं मन्त्रं शुभं वर्णावर्तशब्दादिकं विचारयन्तः पूर्णाहुतिपर्यन्तं दक्षिणभागस्थदधिदुग्धादीनां चुलुकं चुलुकं जुह्वति तेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy