________________
भगवत्या एव माहात्म्यमाह-चण्डीति । चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्ठनात्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कश-चक्र-चाप-कुलिश-श्रीवत्स-मत्स्याङ्कितैर्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥१३॥
व्याख्या-हे चण्डि ! श्रीभगवति ! त्वच्चरणाम्बुजार्चनकृते = तव पादकमलपूजार्थे येषां पुरुषाणां कराः = हस्ताः, बिल्वीदलोल्लुण्ठनात् = बिल्वपत्रत्रोटनात्, त्रुट्यत्कण्टककोटिभिः लग्नकण्टकाग्रैः, परिचयं = सम्पर्क, न जग्मुः = न गताः, ते = पुमांसः दण्डाङ्कुशचक्रचाप-कुलिशश्रीवत्समत्स्याङ्कितैः = एतल्लक्षणलक्षितैः, अम्भोजप्रभैः पाणिभिः = कमलसदृशकोमलकरैरुपलक्षिताः पृथिवीभुजः = नरेन्द्राः, कथमिव जायन्ते । ये श्रीफलधत्तूरतुलसीपत्रादिभिर्भगवतीं नार्चयन्ति ते कथं यथोक्तलक्षणा राजानो भवन्तीत्यर्थः । तत्र दण्डो = गदा, चापं = धनुः, कुलिशं = वज्र, श्रीवत्सो हि हृदयचिह्नम् अङ्कुशचक्रमत्स्याः प्रसिद्धाः, एतानि लक्षणानि सार्वभौमानामेव । भवन्ति । यदुक्तं सामुद्रिके
पद्मवज्राङ्कशच्छत्रशङ्खमत्स्यादयस्तले ।
पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥१॥ इत्यादि ज्ञेयम् । पूजां विना च न प्रौढसमृद्धिः । यदुक्तं महादेवपूजाष्टके
पूजया विपुलं राज्यमग्निकार्येण सम्पदः । इति, न पूजावर्जितं सौख्यम् इति प्रथमकाव्येऽपि भणनाच्च । चण्डीत्यामन्त्रणं, न सुखाराध्या भगवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org