SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ११ ध्येयध्यानताद्रूप्यमाह - आर्भट्येति । आर्भट्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्त्रजं बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥११॥ व्याख्या - शशिखण्डमण्डितजटाजूटाम् = चन्द्र कलालङ्कृ तमौलि नृमुण्डस्रजं = कपालमालाधारिणीं बन्धूकप्रसवारुणाम्बरधरां = जपापुष्परक्तवस्त्रां चतुर्भुजां = बाहुचतुष्टयवतीं त्रिनेत्रां = त्रिलोचनाम् । आपीनतुङ्गस्तनीं = समन्तात्पृथुलोच्चकुचाम् मध्ये = नाभेरधो निम्नवलि-त्रयाङ्किततनुं = चञ्चत्त्रिवलितरङ्गां त्वां = भगवतीं त्वद्रूपसंवित्तये ध्यायन्ति = सर्वसिद्धिमयत्वद्रूपप्राप्तये त्वामेव स्मरन्ति योगिन इति शेषः । पुनः किम्भूताम् ? प्रेतासना - ध्यासिनीं = प्रेतासनं हसौं इति बीजं तदध्यास्ते ताच्छील्ये णिनिः । यदाह देवीजन्मपटले त्रिपुरासारे ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । पञ्चैते च महाप्रेता पादमूले व्यवस्थिताः ॥१॥ तत्कर्णिकोपरिकपञ्चमतुर्ययुक्तानुस्वारमम्बुजतदन्तयुतं निधाय । प्रेताधिपां तदुपरि त्रिदशैकवन्द्यां ध्यायेत लोकजननीं त्रिपुराभिधां ताम् ॥२॥ । कथं स्मरन्तीत्याह आर्भट्या = उद्धतया वृत्त्या । भारतीसात्वतीकौशिकीप्रमुखवृत्तयो हि शान्ताः । आर्भटीवृत्तिस्तु वीररसाश्रया । यदाह सरस्वतीकण्ठाभरणालङ्कारे भोजराजः - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy