________________
निरङ्कुशवक्तृत्वशक्तये विशेषोपदेशमाह-य इति । ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदा निर्याति वक्त्राम्बुजात्तेषां भारति भारती सुरसरित्कल्लोललोलोमिवत् ॥८॥
व्याख्या हे भारति ! पाण्डुर-पुण्डरीक-पटल-स्पष्टाभिराम-प्रभाम् श्वेतकमलराशिदीप्तमनोज्ञकान्तिम् । अमृतद्रवैरिव = सुधारसैवि शिरः = मस्तकं सिञ्चन्तीम् । मूर्जि स्थितां = मस्तकोपरिच्छत्रामिव स्थितां त्वाम् ये = पुरुषाः ध्यायन्ति = स्मरन्ति तेषां वक्त्राम्बुजात्= मुखकमलात् अश्रान्तं = निरन्तरं भारती = वाणी निर्याति = निस्सरति । किंरूपा ? विकटस्फुटाक्षरपदा = विकटान्युदाराणि स्फुटनि प्रकटन्यक्षराणि येष्वेवंभूतानि पदानि वाक्यरचना यस्यां सा तथोक्ता । ईदृशी सालङ्कारा सुललितविदग्ध-स्पृहणीया गीरुल्लसति । कथमित्याह-सुरसरित्कल्लोललोलोमिवत् = सुरसरित् गङ्गा तस्याः कल्लोलाः नीरसम्भारोल्लासिन्यो लहर्यस्तद्वल्लोलाश्चञ्चला ऊर्मयः सावर्तपयःप्रवाहरूपास्तद्वत् । भीमकान्तगुणवत्त्वात् पुरुषस्य केचित्तर्कादिवचनोपन्यासाः कल्लोलैरुपमीयन्ते । शान्तधर्मशास्त्रोपेदशाश्चोर्भिभिरित्येकार्थपदद्वयोपादानम् । सततक्षरदमृतबिन्दुशतसहस्रात् स्वात्मध्यानात् परमा कवित्ववक्तृत्वशक्तिरिति पूर्वकाव्याद्विशेषः । वक्त्राम्बुजादित्यत्र जातिव्यपेक्षयैकवचनमित्यष्टमवृत्तार्थः ॥८॥
१. शतस्नातस्वात्मध्यानादिति जि० पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org