________________
अथ प्रस्तुतसारस्वतसिद्ध्यर्थं ध्येयविभागमाह-वाम इति ।
वामे पुस्तक-धारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनी ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥७॥
व्याख्या-वामे करे पुस्तकधारिणी द्वितीये च वामकरे अभयदां = सर्वजीवाभयप्रदानदक्षां । तथा दक्षिणे पाणौ साक्षस्रजम् = अक्षस्रजा जपमालया सह वर्तते सा तथोक्ता । द्वितीये दक्षिणे करे वरदानपेशलकरां = 'कविर्भव वाग्मी भव लक्ष्मीवान् भवे'इत्यादि-वरदानदुर्ललितां, केभ्यः ? भक्तेभ्यः = निजसेवकेभ्यः, कर्पूरकुन्दोज्ज्वलां = घनसारकुन्दपुष्पोज्ज्वलां त्वां अम्ब = हे मातः ! ये पुरुषाः मनसा = चित्तशुद्ध्या न शीलयन्ति = नाराधयन्ति तेषां कवित्वं कुतः त्वत्प्रसादापेक्षिणी कवित्वशक्तिरिति । पुनस्तामेव विशेषयन्नाह-उज्जृम्भाम्बुजपत्रकान्तनयन-स्निग्धप्रभालोकिनीम् इति । उज्जृम्भं विकसितं यदम्बुजं कमलं तस्य पत्रं पर्णं तद्वत् कान्ते शुभ्रत्वविशालत्वगुणवर्ये ये नयने = नेत्रे तयोः स्निग्धा विशेषदीप्ता या प्रभा कान्तिस्तया लोकत इत्येवंशीला ताम् । प्रसन्नदृष्टिता ह्यासन्नेष्टदानप्रसादाभिमुखीभावलिङ्गम् । यदुक्तं मागधीभाषायाम्
रुहस्स खरा दिट्ठी, उप्पलधवला पसन्नचित्तस्स । कुवियस्स उ मिलायइ, गंतुमणस्सूसिया होइ ॥१॥ इति चतुर्भुजत्वाद् भगवत्याः पुस्तकाभयदानाक्षमालावरदकरत्वं युक्तम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org