________________
२०
श्रीत्रिपुराभारतीस्तवः मोक्ष इति । यदि वा पृथक् एकैकं बीजं = न च मिलितं । बीजत्रयमेव सारस्वतं किन्त्वेकाक्षरमतिरहस्यम् । यदाहुः श्रीपूज्यपादशिष्याः'कान्तादिभूतपदगैकगतार्द्धचन्द्रदन्तान्तपूर्वजलधिस्थितिवर्णयुक्तम् । एतज्जपन्नरवरो भुवि वाग्भवाख्यं वाचां सुधारसमुचां लभते स सिद्धिम् ॥१॥
अन्यच्च क्रमगतं = क्रमेण परिपाट्या लोकप्रसिद्ध्या शिवशक्तिसंयोगरूपया स्थितं यथा-सैं-ह्स्क्ली ह्स्सौं इति । यद्वा व्युत्क्रमात् वैपरीत्येन विपरीतरताभियोगेन स्थितं शक्त्याक्रान्तं शिवबीजमित्यर्थः । यथा स्हैं-स्क्ली स्ह्सौं इति । यदाहु-श्रीजिनप्रभसूरिपादा रहस्ये पुंसो वश्यार्थे शिवाक्रान्तं शक्तिबीजं रक्तध्यानेन ध्यायेत्, स्त्रियास्तु वश्यार्थं शक्त्याक्रान्तं शिवबीजं ध्यायेदिति । त्रिपुरासारेऽप्याह
शिवशक्तिबीजमत एव शम्भुना निहितं द्वयोरुपरि पूर्वबीजयोः । अकुलं च परोपरि च मध्यमाधरे दहनं ततःप्रभृति सोर्जिता भवेत् ॥ भैरवीयमुदिता कुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा । सैव शीघ्रफलदा भुवि विद्या
पश्यते पशुजनेष्वपि गोप्या ॥ किञ्च क्रमव्युत्क्रमौ, क्रमो यथा ऐं क्लीं सौं, व्युत्क्रमो यथा एँ सौँ क्ली क्ली एँ सौँ । क्लीं सौं एँ । सौँ ऐं क्ली । सौं क्लीं ऐं । इत्यमुना प्रकारेण क्रमव्युत्क्रमयोः प्रकारान्तरमुच्यते । यथा क्रमो वाग्बीज-कामबीज-प्रेतबीजक्रमेण, व्युत्क्रमस्तु वाक्प्रेतकामबीजक्रमेण वा । प्रेतवाक्कामबीजक्रमेण वा । प्रेतकाम-वाग्बीजक्रमेण वा । कामवाक्प्रेतबीजक्रमेण वा । कामप्रेतवाग्बीजक्रमेण वेति । यदुक्तं पूज्यैः
१. एतच्छ्लोकाग्रे "कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्तदण्डान्वितं, कामाख्यं गदितं जपान्म
तुरयं(?) साक्षाज्जगत्क्षोभकृत् । दन्तान्तेन युतं तु दण्डिसकलसंक्षोभणाख्यं कुलं सिद्ध्यत्यस्य गुणाष्टकं खचरतासिद्धिश्च नित्यं जपात् ॥१॥" इत्यपि केषुचित्कोशेषु पाठो दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org