SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ = ६ साम्नायसङ्ग्रहमाह-एकैकमिति । एकैकं तव देवि बीजमनघं सव्यञ्जनाव्यञ्जनं कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ॥६॥ व्याख्या - हे देवि = भगवति ! एकैकम् = एकमेकम् अनघं = निर्दूषणं तव बीजं = मन्त्राक्षरं यं यं कामम् = अभीष्टार्थम् अपेक्ष्य आश्रित्य येन केनापि विधिना चिन्तितं = स्मृतं जप्तं वा पौनःपुन्येन चिन्तितं सदिदं बीजं नृणां ध्यातृपुरुषाणां तं तं समस्तं मनोरथं तरसा = वेगेन सफली- करोति = पूरयति । बीजप्रकार बाहुल्यविशेषणान्याह किं विशिष्टं बीजं ? सव्यञ्जनाव्यञ्जनं = सह व्यञ्जनेन = वर्णेन वर्तते सव्यञ्जनम्, न विद्यते व्यञ्जनं यत्र तदव्यञ्जनम्, केवलस्वरमयं । ततः समाहारद्वन्दः । तत्र सव्यञ्जनं मूलाम्नायरूपम् । अव्यञ्जनं च ऐ, ई, औ इति बीजपदानि, एतान्यपि रहस्यरूपाणि ज्ञेयानि । यदाह त्रिपुरासारे शिवाष्टमं केवलमादिबीजं भगस्य पूर्वाष्टमबीजमन्यत् । परं शिरोऽन्तः कथिता त्रिवर्णा सङ्केतविद्या गुरुवक्त्रगम्या ॥१॥ इति तथा कूटस्थम् - अनेकसंयोगाक्षरबीजं यथा हौं - हस्क्लीँ हसौं महात्रिपुरभैरवीं नमः । पट्टे कुङ्कुमगोरोचनाचन्दनकर्पूरैर्मन्त्रं लिखित्वा बद्धस्य नाम उपरि बन्धकस्य त्वधो दत्त्वा रक्तपुष्पैरष्टदिनपर्यन्तमष्टोत्तरशत १०८ जपाद् बन्दीमोक्षः । यदि वा भूर्जपत्रे लिखित्वा दिनत्रयं रक्तपुष्पैरष्टोत्तरशतं १०८ जपं कृत्वा बद्धस्य वस्त्रांचले बन्धयेदवश्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy