________________
त्रिपुरायाः प्रथमबीजान्तरमाह—येति या मात्रा त्रपुषीलतातनुलसत्तन्तूस्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥२॥
व्याख्या-हे भगवति' त्रिपुरे ! इत्यामन्त्रणपदमध्याहार्यं सर्वत्र । त्रिपुषीलतातनुलसत्तन्तूस्थितिस्पद्धिनी या मात्रा प्रथमे तव वाग्बीजे स्थिता = ऐंकारे प्रतिष्ठिता, तां = मात्रां ते वयं = त्वद्भक्ता मन्महे । त्रपुषीलता = उष्णकालेऽरहट्टघटीजलसिक्तक्षेत्रोत्पन्ना कर्कटीवल्ली तस्यास्तनवः = सूक्ष्माः लसन्तः = प्रसरन्तो ये तन्तवो = गुणास्तेषामुत्थितिः = प्रथमारम्भ स्पर्द्धते = अनुकरोति । नवोत्पन्नास्तन्तवो विशिष्य कुटिलाकारा भवन्तीत्यर्थः । ईदृशी ® या मात्रा हाँआकाररूपा सैव मात्रा । हे भगवति ! तव वाग्बीजे = ऐङ्कारे स्थिता तां = मात्रां वयं मन्महे अर्द्धमात्रामपि ऐंकारवद्वाग्बीजतयाद्रियामहे इत्यर्थः । इयं कुण्डलिनी शक्तिः भगवती विश्वजननव्यापारबद्धोद्यमा= विश्वस्य = जगतो जननमुत्पादनं तस्य व्यापारः = कर्म तत्र बद्धोद्यमा = कृत-प्रयासा चतुर्दशभुवनसृष्टिसावधाना त्रिपुरा इति, इत्थं ज्ञात्वा = एवं सम्यगवबुध्य नराः = मनुष्याः जननीगर्भे = मातृकुक्षौ पुनः अर्भकत्वं = डिम्भरूपतां न स्पृशन्ति
१. इत्यादि सम्बोधन पदों का अध्याहार जहाँ आवश्यकता हो वहाँ सब स्थानपर कर लेना
चाहिये । २. अयं कुण्डलिनीशक्तेराकारः । एतदाकाररूपेत्यर्थः । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org