________________
७०
श्रीत्रिपुराभारतीस्तवः अहो भैरवपत्नि ! मातः ! त्रिपुरे ! यानि तव अत्यन्तगुह्यानि अतिदुर्बोधानि नामानि वर्तन्ते । कैः ? अक्षरैः वर्णैः किंभूतैः वर्णैः ? काद्यैः कृत्वा । किंभूतैः काद्यैः ? क्षान्तगतैः, स्वरादिभिः, अथ तैरक्षरैः, क्षान्तैः सस्वरैः, पुनः किंभूतैः ? आ ई पल्लवितैः परस्परयुतैः = परस्परगुम्फितैः आईशब्दान्तयोजितेः । तद्यथा-अकाई, अखाई, अगाई इत्यादि अक्षाई यावत् । आकाई, आखाई, आगाई, आघाई इत्यादि आक्षाई यावत् । इकाई, इखाई, इगाई, इघाई इत्यादि इक्षाई यावत् इत्यादि षोडशस्वरैः आदिभूतैः काद्यैः क्षान्तगतैः अक्षरैर्नामानि पुनरावृत्त्योच्चारेण षष्ठ्यधिकपञ्चशतानि भवन्ति । अथ क्षान्तगतैः सस्वरैः काद्यैः, यथा क का कि की कु कू कृ क्कृ क्लृ क्लू के कै को कौ कं कः । एवं सस्वरककादीनि क्षान्तानि यावत् । यथा ककाई, कखाई, कगाई, कघाई इत्यादि कक्षाई यावत् । काकाई, काखाई, कागाई, काघाई इत्यादि काक्षाई यावत् । किकाई, किखाई, किगाई, किघाई इत्यादि किक्षाई यावत् । कीकाई, कीखाई, कीगाई, कीघाई इत्यादि कीक्षाई यावत् । एभिः प्रकारैः षोडशस्वरैः परस्परयुतैस्तैरक्षरैरावृत्त्या एकोनविंशतिसहस्राणि षट्शताऽधिकानि अभियुक्तैर्गणनया ज्ञातव्यानि । षोडशभिः पंचत्रिंशता गुणने ५६०, तेषामपि पंचत्रिंशता गुणने १९६००, पश्चात् ५६० मीलने २०१६०, एकराशौ विंशतिसहस्राणि षष्ट्यधिकशतोत्नराणि भवन्तीत्यत्र । अत एवोक्तं विंशतिसहस्त्रेभ्यः परेभ्योऽधिकेभ्य इत्यर्थः ।
पुनरेतेषामुत्तरषट्के दीर्धेः स्वरैरष्टभिः क्षकारात्प्रतिलोमैः वर्णैः लकारान्तैष्टभिः 'क्षळहसषशवल'रूपैः कियन्त्येव नामानि कथितानि । यथा आक्षाई ईक्षाई ऊक्षाई ऋक्षाई लक्षाई ऐक्षाई औक्षाई अक्षाई इत्यष्टौ । आळाई ईळाई ऊळाई ऋळाई लळाई ऐळाई औळाई अळाई इत्यष्टौ । आहाई ईहाई ऊहाई हाई लहाई ऐहाई औहाई अ:हाई इत्यष्टौ । आसाई ईसाई ऊसाई ऋसाई लुसाई ऐसाई औसाई अ:साई इत्यष्टौ । आषाई ईषाई ऊषाई ऋषाई लुषाई ऐषाई औषाई अषाई इत्यष्टौ । आशाई ईशाई ऊशाई ऋशाई लशाई ऐशाई औशाई अ:शाई इत्यष्टौ । आवाई ईवाई ऊवाई ऋवाई लवाई ऐवाई औवाई अ:वाई इत्यष्टौ । आलाई ईलाई ऊलाई ऋलाई ललाई ऐलाई औलाई अःलाई इत्यष्टौ । एवमष्टाष्टकविधानेन चतुःषष्टि नामानि, एषा समूला विद्येति । एभ्यस्तव गुह्यनामभ्यः युगपन्नमस्कारो भवतु ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org