________________
७१
पञ्जिकानामविवृतिः इदानीं सामान्यविशेषक्रमोत्क्रमप्रकारेण बहुप्रकारं मन्त्रोद्धारमाह
बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पादसङ्ख्याक्षरै
मन्त्रोद्धारविधिर्विशेषसहितः सत्सम्प्रदायान्वितः ॥२०॥ बुधैर्विद्वद्भिः त्रिपुरेति नाम्न्या भारत्याः सरस्वत्याः इयं स्तुतिलघुस्तवरूपा निपुणं = अन्तर्दृष्टिकरणेन बोद्धव्या = अवगन्तव्या । किं कृत्वा ? तद्गतं = तदेकाग्रं मनः कृत्वा = चित्तं विधाय बोद्धव्या । केन ? अनन्यमनसा स्थिरचित्तेन । तदेवाह-यत्रेत्यादि यत्राद्ये प्रथमे पदे प्रथमपदं ऎकारः, द्वितीये द्वितीयपदं क्लीं कारः, तथा तृतीयपदे तृतीयपदं हसौं कारः । तथा विशेषसहितः इन्द्रायुधप्रभं ध्यानं ललाटमध्ये, शुक्लज्योतिर्ध्यानं शिरसि, सूर्यप्रभातुल्यं ध्यानं हृदये, पूर्वप्रतिपादितमेव । तथा सत्सम्प्रदायान्वितः क्वचित् सकार-हकार-रेफयुतः, क्वचिद् एकाक्षरः, क्वचित् सव्यञ्जनः, क्वचित् कूटस्थः, क्वचिदकूटस्थः, क्वचित् पृथक्, क्वचिदपृथक्, क्वचित् क्रमस्थः, क्वचिद् व्युत्क्रमस्थः एवंप्रकारेण सम्प्रदायान्वितः । तथा चोक्तम् उत्तरषट्केऽपि
जीवासनगतं प्राणं कूटं माहेश्वरं पुनः । इति । जीवः सकारः, प्राणो हकारः । आसनं क्वचिदधस्ताद्भवति, क्वचिदुपरिष्टादपि स्यात् । तथा
कूटं तु मध्यमं शृङ्गं शक्तिबीजसमन्वितम् ।। तेन कामराजस्य सकारपूर्वकत्वं सिद्धम् । तदित्थमुद्धारे यादृशा वर्णाः सिद्धास्तादृशा एव एते वर्णा विर्ण्यस्ताः बोद्धव्याः । अत उद्धारे हि बीजाक्षरपूजाविधानेन ध्यान-लिपि-बिम्बस्य प्राधान्यम् । जपाभ्यासेन तदुद्धारस्तदिदं सारस्वतम् । तथा आक्षाई आळाई आहाई आसाई आषाई आशाई आलाई आवाई स्वतः सिद्धमेवेति लिपिस्थम् ।
Jain Education International
tion International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
www.jainelibrary s