________________
पञ्जिकानामविवृतिः माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी
ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥१८॥ मायादीनि नामानि प्रसिद्धानि स्थानक्रियाचरितमहिमोद्भूतानि । तथा त्वं माया परमात्मनः सहचरीत्यसि । तथा कुण्डलिनी अपवर्गदायिनी इत्यसि । तथा क्रिया सृष्टिपालनसंहाररूपा इत्यसि । तथा मधुमती या परमात्मनो ध्यानाग्निना प्रदग्धकर्मणो मुक्ति प्रति जिगमिषोः संसारविषयभोगप्रदर्शिनी परमेश्वरविप्रलम्भिका त्वमसीत्यादिषूह्यम् ॥१८॥
इदानी परमेश्वर्या आगमोक्तनामान्याह
आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमादक्षरैः काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । . नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्ति ! विंशतिसहस्त्रेभ्यः परेभ्यो नमः ॥१९॥
१. अत्र प्रत्यन्तरे पुनरेतदधिकं पठ्यते-'काली मातृणां मध्ये । अथवा मुहूर्तिनी काली कलाबहुमितत्वात् । मालिनी आगमभेदेन । मातङ्गी शिवागमभेदेन । विजया जया तथैव । भगवती ज्ञानवती । मतान्तरे वा प्रसिद्धा कुब्जिका । देवी सर्वदेवेषु शक्तिरूपा। शिवा गौरी । शाम्भवी ब्राह्मी सरस्वती वा।
शक्तिरूपं वदन्त्येके शिवरूपमथापरे ।
संयोगं च तयोरन्ये विवादा बहवो मताः ॥ शङ्करवल्लभा सर्वेषु रूपेषु भगवान् विमुक्त:(?) । त्रिनयना त्र्यक्षा । अथवा त्रिमार्गा त्रिप्रकारा । वाग्वादिनी सर्वदेवेषु प्रोच्चारणीया । भैरवी भैरवरूपधारिणी दर्शनेन मतान्तरेण वा । ह्रींकारी ह्रींकारभावा । सा त्रिपुरा भक्तानां धर्मार्थकामान् पूरयतीति परापरमयी वेदाङ्गप्रसिद्धा दर्शनभवा रम्या । माता जननी । कुमारी अपरिणीता त्वमसि । एतानि चतुर्विंशति नामानि स्मृत्वा, तथा पूर्वोक्तनामानि स्मृत्वा विपदस्तरन्ति ।
एते मन्त्रा मया प्रोक्ता आगमश्च स्वनामभिः । एतेषां स्मरणं कुर्वन्न कृच्छ्रेष्ववसीदति ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org