________________
श्रीत्रिपुराभारतीस्तवः
सुषुम्णा वा तासां त्रयम्, त्रिब्रह्म वेदत्रयम् । हृद्-व्योमद्वादशान्तः-ब्रह्मरन्ध्रान्तश्च । तथा वर्णास्त्रयः ब्राह्मणादयः । वाग्भव-कामराज-शक्तिबीजानि तेषां त्रयम् । अन्यदपि त्रिभुवने त्रिवर्गादिकम्-त्रिवर्गा धर्मार्थकामरूपाः । आदि-शब्देन रतिप्रीति-मनोभवाः । दूतीत्रयम्, पीठत्रयम्, मन्त्रत्रयम्, वृक्षत्रयम्, समुद्रत्रयम्, देवीत्रयम्, सिद्धित्रयम्, ध्यानधारणासमाधित्रयम्, नादबिन्दुकलात्रयम्, उदय-मध्यसन्ध्यात्रयम्, भुवनत्रयम्-इत्यादि अन्यदपि यत्रिधा नियमितं वस्तु च विद्यते तत् समस्तं ज्ञानादि भगवति ! त्रिपुरेति नाम अन्वेति अनुगच्छति । अन्वाकारो यावत्रीणि पुराणि भूर् भुवः स्वः, त्रीणि रूपाणि वाग्भव-कामराज-शक्तिबीजानि, हद्-भ्रूमध्यशिरोरूपाणि वा यस्याः सा तथोक्ता । पूर्वं जगज्जननि त्रिधा स्थितं तदर्थं नाम । पश्चाद्देवादीनां पूर्वोपन्यस्तानां त्रितयानीति भावः ॥१६॥
इदानीं स्मरणमात्रेण विपदुत्तारमाह
लक्ष्मी राजकुले जयां रणमुखे क्षेाङ्करीमध्वनि क्रव्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजृम्भकभये स्मृत्वा महाभैरवीं
व्यामोहे त्रिपुरां तरन्ति विपदस्ताराञ्च तोयप्लवे ॥१७॥
एतेषु वक्ष्यमाणस्थानेषु मानवा विपदस्तरन्ति आपदो विलङ्घयन्ति । किं कृत्वा ? राजकुले राजभवने 'लक्ष्मी' स्मृत्वा, तथा रणमुखे रणसङ्ग्रामे सङ्ग्रामसंकटे 'जयां' नाम त्वाम्, तथा अध्वनि मार्गे 'क्षेमंकरी' नाम त्वाम्, तर्हि मार्गः सौम्य भविष्यतीत्याह-क्रव्यादद्विपसर्पभाजि = क्रव्यादा = राक्षसाः द्विपाः = वनकरिणः सर्पाः = अजगरादयः तान् भजते तस्मिन् इति, तथा कान्तारदुर्गे . विपिनेऽपि, गिरौ = पर्वतवलये 'शबरी' नाम त्वाम्, भूत-प्रेत-पिशाचजम्भकभये भूत-प्रेत-पिशाचजृम्भका देवयोनिविशेषाः तेभ्यस्त्रासे सति 'महाभैरवी' नाम त्वाम्, स्मृत्वा = विचिन्त्य सर्वत्रापि योज्यम् । तथा व्यामोहे = बुद्धिविप्लवे सति 'त्रिपुरां' नाम त्वाम्, तथा तोयविप्लवे 'तारां' नाम त्वाम् । एवं स्मृत्वा राजभुवनादिषु लक्ष्मी-प्रभृतीनां त्वदङ्गानां अधिष्ठातृदेवीनां नाममात्रस्मरणेन विपदामपनयनमुचितम् ॥१७॥
इदानी परमेश्वर्याः प्रसिद्धानि कार्यारम्भसाधकानि नामान्याह कविः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org