________________
६७
पञ्जिकानामविवृतिः शब्दानां जननि ! त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी
सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥१५॥ अहो जननि ! अर्वाचीने पदे अत्र भुवने त्रिजगति, शब्दजननी वाग्भवबीजरूपत्वात् वाग्वादिनीतिरूपनाम पौराणिकैः त्वमुच्यसे । अथ पराचीनावस्थामाहध्रुवं = निःसन्देहं स्वर्गादौ, केशव-वासवप्रभृतयोऽपि देवाः, त्वत्तः सकाशादुत्पद्यन्ते । तथा कल्पान्ते प्रलये देवसंहारे, तेऽप्यमी स्वयंभूत्वेन सृष्टिकरणपालनसंहारकत्वेन सिद्धा ब्रह्मादयोऽपि, यत्र = त्वयि, विलीयन्ते = विलयं गच्छन्ति । संहारं प्राप्नुवन्ति । सा त्वं एवंविधा काचिदविज्ञेयस्वरूपा शक्तिः परा = उत्कृष्टा गीयसे = मुनिभिरुच्यसे । किंभूता ? अचिन्त्यरूपगहना अचिन्त्यं वाग्मनसोरप्यचिन्तनीयत्वात्, चिन्तया दुर्विज्ञेयं यद्रूपं तेन गहना दुर्बोधा ॥१५।।
इदानीं जगन्मातुः सर्वगत्वं प्रतिपादयन्नाह
देवानां त्रितयी त्रयी हुतभुजां शक्तित्रयं त्रिस्वरास्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥१६॥
देवानां हरि-हर-ब्रह्मरूपाणां त्रितयम्; तथा हुतभुजां गार्हपत्याहवनीयदक्षिणाग्नीनां त्रितयम्, शक्तीनां ब्राह्मणी-वैष्णवी-माहेश्वरीणाम्, इच्छा-ज्ञानक्रियाणाम्, प्रभुमन्त्रोत्साहरूपाणां च त्रयम्, तथा त्रिस्वरा उदात्तानुदात्तसमाहाररूपलक्षणाः, अकार-उकार-बिन्दुरूपा वा तेषां त्रयम्, तथा त्रैलोक्यं त्रिलोकी एव त्रैलोक्यम्, भेषजादित्वात् स्वार्थे यण् । मूलाधिष्ठानमणिपूरक इति एको लोकः, अनाहतनिरोधविशुद्धिरिति द्वितीयो लोकः, आज्ञाशीब्रह्मस्थानमिति तृतीयो लोकः, एषां त्रयम्, तथा त्रिपदी गायत्री, गङ्गा, विष्णुपदत्रयं वा । आदि-कान्तं खादिदान्तं धादि-क्षान्तं सप्तदशभिरक्षरैः पदं भवति । भूर्भुवःस्व:रूपाणां त्रयम् । तथा त्रिपुष्कर = त्रीणि पुष्कराणि हृदय-भ्रूमध्य-शिर: पद्मानां त्रयम्, तीर्थविशेषो वा । इडा पिंगला
१. 'गहना' इति पञ्जिकाकृत्सम्मतः पाठः ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org