________________
६४
श्रीत्रिपुराभारतीस्तवः
चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्जीस्त्र ये त्वां चेतसि त्वद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जर-कर्णतालतरलाः स्थैर्य भजन्ति श्रियः ॥१०॥
अहो स्वामिनि ! ये माः क्षणमात्रमप्येवंविधां भगवतीं त्वां चेतसि निश्चलीकृत्य ध्यायन्ति । किंभूताम् ? चञ्चत्काञ्चनकुण्डलाङ्गदधराम् = चञ्चन्ति शोभमानानि हिरण्यमयानि कुण्डलाङ्गदानि तानि धारयसीति । तथा आबद्धकाञ्चीत्रजं धृतरसनाकलापाम् । किंभूते चेतसि ? त्वद्गते ध्याननिश्चले । ननु तेषां किं फलं स्यादित्याह-तेषां = पुरुषाणां वेश्मसु = गृहेषु संपदोऽहरहः स्फारीभवन्ति । प्रतिदिनं वर्धमानाः, चिरं = बहुकालात्, विभ्रमात् त्वत्प्रसादादरेण स्थिरीभवन्ति । श्रियस्तस्मादन्यत्र न गच्छन्तीत्यर्थः । तर्हि स्वभावादेव निश्चला भविष्यन्ति । किंभूताः ? माद्यत्कुञ्जरकर्णतालतरला: मत्तगजेन्द्रकर्णतालवत् चपला अपि । चञ्चु इत्यादि-दण्डकधातुरनेकार्थत्वाद् धातूनां शोभार्थेऽपि । तथा च माघमहाकाव्ये-'हेमच्छदच्छायचञ्चच्छिखाग्रः' ॥१०॥
इदानीं मुक्तिदं ध्यानमाह
आर्भट्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनी मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥११॥
हंहो भगवति ! स्वामिनि ! ये मानवा इत्थंरूपां. भवती आर्भट्या = अत्यादरेण ध्यायन्ति = स्मरन्ति । कथंभूताम् ? शशिखण्डमण्डितजटाजूटां = चन्द्रार्धालङ्कृतजटामुकुटाम् तथा नृमुण्डस्त्रजं = नरमुण्डमालाधराम् बन्धूकप्रसवारुणाम्बरधरां = बन्धूकजीवकुसुमारुणनिवसनपिहिताम् तथा प्रेतासनाध्यासिनी = शवारूढाम् तथा चतुर्भुजां = बाहुचतुष्टयाङ्किताम्, तथा त्रिनयनां = लोचनत्रिकविभूषिताम्, तथा आपीनतुङ्गस्तनी = पीवरोन्नतकुचाम्, तथा मध्ये =
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org