________________
पञ्जिकानामविवृतिः
६५ विलग्नप्रदेशे, निम्नवलित्रयाङ्किततनुं निम्नोदररेखात्रयाङ्कितशरीराम् । ननु तेषां कि फलं स्यादित्याह-त्वद्रूपसंवित्तये त्वद्वत्तोपन्यस्तं यत् त्वदीयं रूपं तस्य संवित्तिः, विद लाभे इत्यस्य रूपम्, प्राप्तिस्तदर्थम् । प्रतिपादितरूपध्यानविशेषावाप्तपरमात्मशक्तिलक्षणदर्शनात् क्षीणकर्माणो मुक्तिमेव प्रतिपद्यन्ते इत्यर्थः ॥११॥
इदानी पूर्ववृत्तकथनेन देव्याः प्रसादफलसंपत्तिमाह
जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमाने कुले निश्शेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवदेवि! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥१२॥
हंहो भगवति ! यत् पुरा श्रीवत्सराजः श्रीवत्सानां देशविशेषाणां राजा उदयनो नामा बभूव । तर्हि अनवाप्तप्रतिष्ठो भविष्यतीत्याह-निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा = निश्शेषावनौ समस्तभूमौ चक्रवर्तिपदवीं = सार्वभौमत्वं प्राप्य । तर्हि प्रतापरहितो भविष्यतीत्याह-प्रतापोन्नतः = प्रतापाग्निना भस्मीकृतशत्रुः सर्वोत्कृष्टः, अत एव विद्याधरवृन्दवन्दितपदः नमद्देवविशेषमण्डलमुकुटकिरणनिकराऽलङ्कृत-चरणारविन्दः । तर्हि पुरा एवंविधो भविष्यतीत्याह-अल्पपरिच्छदोऽपि प्रभुमन्त्रोत्साहशक्तित्रयहीनोऽपि । अनुचितमिदम् । तत् कस्य प्रभाव इत्याह-सोऽयं प्रसादोदयः = सोऽयं पूर्वोक्तः सार्वभौमादिरुदयस्तव प्रसादादजनिष्ट । ननु प्रसादः कथमभूत् ? इत्याह-त्वच्चरणाम्बुजप्रणतिजः = तव चरणावेव सौकुमार्यादाक्तत्वाच्च अम्बुजे तयोः प्रणतिर्भक्तिपूजाराधनाधुपचारः तस्माज्जातः ॥१२॥ .
इदानी परमेश्वर्याः पूजनात् फलविशेषमाह
चण्डि! त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्ठनात् त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै
र्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥१३॥ अहो चण्डि ! येषां = पुरुषाणां हस्ताः, त्वच्चरणाम्बुजार्चनकृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org